Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 28
    ऋषिः - प्रजापतिर्ऋषिः देवता - प्रजापतिर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    यद॑स्याऽअꣳहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्याऽएजतो गोश॒फे श॑कु॒लावि॑व॥२८॥

    स्वर सहित पद पाठ

    यत्। अ॒स्याः॒। अ॒ꣳहु॒भेद्या॒ऽइत्य॑ꣳहु॒ऽभेद्याः॑। कृ॒धु। स्थू॒लम्। उ॒पात॑स॒दित्यु॑प॒ऽअत॑सत्। मु॒ष्कौ। इत्। अ॒स्याः॒। ए॒ज॒तः॒। गो॒श॒फ इति॑ गोऽश॒फे। श॒कु॒लावि॒वेति॑ शकु॒लौऽइ॑व ॥२८ ॥


    स्वर रहित मन्त्र

    यदस्याऽअँहुभेद्याः कृधु स्थूलमुपातसत् । मुष्काविदस्याऽएजतो गोशफे शकुलाविव ॥


    स्वर रहित पद पाठ

    यत्। अस्याः। अꣳहुभेद्याऽइत्यꣳहुऽभेद्याः। कृधु। स्थूलम्। उपातसदित्युपऽअतसत्। मुष्कौ। इत्। अस्याः। एजतः। गोशफ इति गोऽशफे। शकुलाविवेति शकुलौऽइव॥२८॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 28
    Acknowledgment

    अन्वयः - यद्यो राजा राजपुरुषश्चास्या अंहुभेद्याः कृधु स्थूलं कर्मोपातसत् तावस्या एजतो गोशफे शकुलाविव मुष्काविदेजतः॥२८॥

    पदार्थः -
    (यत्) यः (अस्याः) प्रजायाः (अंहुभेद्या) अंहुमपराधं या भिनत्ति तस्याः (कृधु) ह्रस्वम्। कृध्विति ह्रस्वनामसु पठितम्॥ (निघं॰३।२) (स्थूलम्) महत् कर्म (उपातसत्) उपभूषयेत् (मुष्कौ) मूषकौ (इत्) एव (अस्याः) (एजतः) कम्पयतः (गोशफे) गोखुरचिह्ने (शकुलाविव) ह्रस्वौ मत्स्याविव॥२८॥

    भावार्थः - अत्रोपमालङ्कारः। यथा प्रीतिमन्तौ मत्स्यावल्पेऽपि जलाशये निवसतस्तथा राजराजपुरुषावल्पेऽपि करलाभे न्यायेन प्रीत्या वर्त्तेयाताम्। यदि दुःखच्छेदिकायाः प्रजायाः स्वल्पमहदुत्तमं कर्म प्रशंसयेतां तर्हि तौ प्रजा उपरक्ताः कृत्वा स्वविषये प्रीतिं कारयेताम्॥२८॥

    इस भाष्य को एडिट करें
    Top