यजुर्वेद - अध्याय 23/ मन्त्र 35
ऋषिः - प्रजापतिर्ऋषिः
देवता - प्रजा देवता
छन्दः - भुरिगुष्णिक्
स्वरः - ऋषभः
9
म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः।मैघी॑र्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा॥३५॥
स्वर सहित पद पाठम॒हाना॑म्न्य॒ इति॑ म॒हाऽना॑म्न्यः। रे॒वत्यः॑। विश्वाः॑। आशाः॑। प्र॒भूव॒रीरिति॑ प्र॒ऽभूव॑रीः। मैघीः॑। वि॒द्युत॒ इति॑ वि॒द्युऽतः॑। वाचः॑। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३५ ॥
स्वर रहित मन्त्र
महानाम्न्यो रेवत्यो विश्वाऽआशाः प्रभूवरीः । मैघीर्विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥
स्वर रहित पद पाठ
महानाम्न्य इति महाऽनाम्न्यः। रेवत्यः। विश्वाः। आशाः। प्रभूवरीरिति प्रऽभूवरीः। मैघीः। विद्युत इति विद्युऽतः। वाचः। सूचीभिः। शम्यन्तु। त्वा॥३५॥
विषयः - पुनर्विद्वांसः कीदृशा भवेयुरित्याह॥
अन्वयः - हे जिज्ञासो! सूचीभिर्या महानाम्न्यो रेवत्यः प्रभूवरीर्विश्वा आशा इव मैघीर्विद्युत इव च वाचस्त्वा शम्यन्तु तास्त्वं गृहाण॥३५॥
पदार्थः -
(महानाम्न्यः) महन्नाम यासां ताः (रेवत्यः) बहुधनयुक्ताः (विश्वाः) अखिलाः (आशाः) दिशः (प्रभूवरीः) प्रभुत्वयुक्ताः (मैघीः) मेघानामिमाः (विद्युतः) (वाचः) (सूचीभिः) (शम्यन्तु) (त्वा) त्वाम्॥३५॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। येषां वाचो दिग्वत्सर्वासु विद्यासु व्यापिका मेघस्था विद्युदिव सर्वार्थप्रकाशिकाः सन्ति, ते शान्त्या जितेन्द्रियत्वं प्राप्य महाकीर्त्तयो जायन्ते॥३५॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal