Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 54
    ऋषिः - प्रजापतिर्ऋषिः देवता - समाधाता देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑।अवि॑रासीत् पिलिप्पि॒ला रात्रि॑रासीत् पिशङ्गि॒ला॥५४॥

    स्वर सहित पद पाठ

    द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५४ ॥


    स्वर रहित मन्त्र

    द्यौरासीत्पूर्वचित्तिरऽअश्वऽआसीद्बृहद्वयः । अविरासीत्पिलिप्पिला रात्रिरासीत्पिशङ्गिला ॥


    स्वर रहित पद पाठ

    द्यौः। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। अश्वः। आसीत्। बृहत्। वयः। अविः। आसीत्। पिलिप्पिला। रात्रिः। आसीत्। पिशङ्गिला॥५४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 54
    Acknowledgment

    अन्वयः - हे जिज्ञासो! द्यौः पूर्वचित्तिरासीद्, अश्वो बृहद्वय आसीद्, अविः पिलिप्पिलाऽऽसीद्, इति त्वं विजानीहि॥५४॥

    पदार्थः -
    (द्यौः) विद्युत् (आसीत्) (पूर्वचित्तिः) प्रथमं चयनम् (अश्वः) महत्तत्त्वम् (आसीत्) (बृहत्) महत् (वयः) प्रजननात्मकम् (अविः) रक्षिका प्रकृतिः (आसीत्) (पिलिप्पिला) (रात्रिः) रात्रिवद्वर्त्तमानः प्रलयः (आसीत्) (पिशङ्गिला) सर्वेषामवयवानां निगलिका॥५४॥

    भावार्थः - हे मनुष्याः! याऽतीवसूक्ष्मा विद्युत् सा प्रथमा परिणतिर्महदाख्यं द्वितीया परिणतिः, प्रकृतिर्मूलकारणपरिणतिः, प्रलयः सर्वस्थूलविनाशकोऽस्तीति विजानीत॥५४॥

    इस भाष्य को एडिट करें
    Top