यजुर्वेद - अध्याय 23/ मन्त्र 47
ऋषिः - प्रजापतिर्ऋषिः
देवता - जिज्ञासुर्देवता
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
18
किꣳस्वि॒त् सूर्य॑समं॒ ज्योतिः॒ किꣳस॑मु॒द्रस॑म॒ꣳसरः॑।किꣳस्वि॑त् पृथि॒व्यै वर्षी॑यः॒ कस्य॒ मात्रा॒ न वि॑द्यते॥४७॥
स्वर सहित पद पाठकिम्। स्वि॒त्। सूर्य॑सम॒मिति॒ सूर्य॑ऽसमम्। ज्योतिः॑। किम्। स॒मु॒द्रस॑म॒मिति॑ समु॒द्रऽस॑मम्। सरः॑। किम्। स्वि॒त्। पृ॒थि॒व्यै। वर्षी॑यः। कस्य॑। मात्रा॑। न। वि॒द्य॒ते॒ ॥४७ ॥
स्वर रहित मन्त्र
किँ स्वित्सूर्यसमञ्ज्योतिः किँ समुद्रसमँ सरः । किँ स्वित्पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥
स्वर रहित पद पाठ
किम्। स्वित्। सूर्यसममिति सूर्यऽसमम्। ज्योतिः। किम्। समुद्रसममिति समुद्रऽसमम्। सरः। किम्। स्वित्। पृथिव्यै। वर्षीयः। कस्य। मात्रा। न। विद्यते॥४७॥
विषयः - पुनः प्रश्नानाह॥
अन्वयः - हे विद्वन्! किं स्वित् सूर्यसमं ज्योतिः? किं समुद्रसमं सरः? किं स्वित् पृथिव्यै वर्षीयः? कस्य मात्रा न विद्यत? इति॥४७॥
पदार्थः -
(किम्) (स्वित्) (सूर्यसमम्) सूर्येण तुल्यम् (ज्योतिः) प्रकाशस्वरूपम् (किम्) (समुद्रसमम्) (सरः) सरन्ति जलानि यस्मिन् तडागे तत् (किम्) (स्वित्) (पृथिव्यै) पृथिव्याः। अत्र पञ्चम्यर्थे चतुर्थी (वर्षीयः) वृद्धम् (कस्य) (मात्रा) मीयते यया सा (न) (विद्यते) भवति॥४७॥
भावार्थः - आदित्यवत्तेजस्वि समुद्रवदुदधि भूमेरधिकं च किं कस्य च परिमाणं नास्तीत्येतेषां प्रश्नानामुत्तराणि परस्मिन् मन्त्रे वेदितव्यानि॥४७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal