अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 16
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॒राया॑न्ब्रूमो॒ रक्षां॑सि स॒र्पान्पु॑ण्यज॒नान्पि॒तॄन्। मृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठअ॒राया॑न् । ब्रू॒म॒: । रक्षां॑सि । स॒र्पान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । मृ॒त्यून् । एक॑ऽशतम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१६॥
स्वर रहित मन्त्र
अरायान्ब्रूमो रक्षांसि सर्पान्पुण्यजनान्पितॄन्। मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठअरायान् । ब्रूम: । रक्षांसि । सर्पान् । पुण्यऽजनान् । पितॄन् । मृत्यून् । एकऽशतम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 16
विषय - कष्ट हटाने के लिये उपदेश।
पदार्थ -
(अरायान्) अदाताओं, (रक्षांसि) राक्षसों, (सर्पान्) सर्पों [सर्पसमान क्रूरस्वभावों], (पुण्यजनान्) पुण्यात्माओं और (पितॄन्) पालनकर्ताओं का (ब्रूमः) हम कथन करते हैं। (एकशतम्) एक सौ एक [अपरिमित] (मृत्यून्) मृत्युओं [मृत्यु के कारणों] का (ब्रूमः) हम कथन करते हैं, (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१६॥
भावार्थ - मनुष्य दुःखदायी दुष्टों के त्याग से और पुण्यात्माओं के सत्सङ्ग से मृत्यु के कारणों से बचकर सदा आनन्द भोगें ॥१६॥
टिप्पणी -
१६−(अरायान्) अ+रा दानादानयोः-घञ्, युक्। अदातॄन् (रक्षांसि) राक्षसान् (सर्पान्) सर्पवत् क्रूरान् (पुण्यजनान्) पूञो यण् णुण्घ्रस्वश्च। उ० ५।१५। पूञ् शोधने-यत्, णुक् ह्रस्वत्वं च। पवित्रात्मनः (पितॄन्) पालकान् (मृत्यून्) मरणकारणानि (एकशतम्) अ० ३।९।६। एकोत्तरशतसंख्याकान्। अपरिमितान्। अन्यत् पूर्ववत् ॥