अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 9
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
भ॑वाश॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः। इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥
स्वर सहित पद पाठभ॒वा॒श॒र्वौ । इ॒दम् । ब्रू॒म॒: । रु॒द्रम् । प॒शु॒ऽपति॑: । च॒ । य: । इषू॑: । या: । ए॒षा॒म् । स॒म्ऽवि॒द्म । ता: । न॒: । स॒न्तु॒ । सदा॑ । शि॒वा: ॥८.९॥
स्वर रहित मन्त्र
भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः। इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥
स्वर रहित पद पाठभवाशर्वौ । इदम् । ब्रूम: । रुद्रम् । पशुऽपति: । च । य: । इषू: । या: । एषाम् । सम्ऽविद्म । ता: । न: । सन्तु । सदा । शिवा: ॥८.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 9
विषय - कष्ट हटाने के लिये उपदेश।
पदार्थ -
(इदम्) अब (भवाशर्वौ) भव [सुखोत्पादक] और शर्व [दुःखनाशक दोनों पुरुषों] को (च) और (रुद्रम्) रुद्र [ज्ञानदाता पुरुष] को, (यः) जो (पशुपतिः) प्राणियों का रक्षक है, (ब्रूमः) हम पुकारते हैं, [इसलिये कि] (एषाम्) इन सबके (याः इषूः) जिन तीरों को (संविद्म) हम पहिचानते हैं, (ताः) वे (नः) हमारे लिये (सदा) सदा (शिवाः) कल्याणकारी (सन्तु) होवें ॥९॥
भावार्थ - जिन पुरुषों के अस्त्र-शस्त्रधारी योद्धा पुरुष सहायक होते हैं, वे शत्रुओं का नाश करके सुख पाते हैं ॥९॥
टिप्पणी -
९−(भवाशर्वौ) अ० ४।२८।१। सुखोत्पादकशत्रुनाशकौ पुरुषौ (इदम्) इदानीम् (ब्रूमः) (रुद्रम्) अ० २।२७।६। रु गतौ-क्विप्, तुक्+रा दाने-क। ज्ञानदातारम् (पशुपतिः) प्राणिरक्षकः (च) (यः) (इषूः) शरान् (याः) (एषाम्) पूर्वोक्तानाम् (सं विद्म) सम्यग् जानीमः (ताः) इषवः (नः) अस्मभ्यम् (सन्तु) (सदा) (शिवाः) सुखहेतवः ॥