अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 3
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्। त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठब्रू॒म: । दे॒वम् । स॒वि॒तार॑म् । धा॒तार॑म् । उ॒त । पू॒षण॑म् । त्वष्टा॑रम् । अ॒ग्रि॒यम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.३॥
स्वर रहित मन्त्र
ब्रूमो देवं सवितारं धातारमुत पूषणम्। त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठब्रूम: । देवम् । सवितारम् । धातारम् । उत । पूषणम् । त्वष्टारम् । अग्रियम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 3
विषय - कष्ट हटाने के लिये उपदेश।
पदार्थ -
(देवम्) विजयी, (सवितारम्) प्रेरक, (धातारम्) धारण करनेवाले (उत) और (पूषणम्) पोषण करनेवाले पुरुष को (ब्रूमः) हम पुकारते हैं। (अग्रियम्) अग्रगामी (त्वष्टारम्) सूक्ष्मदर्शी पुरुष को (ब्रूमः) हम पुकारते हैं, (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥३॥
भावार्थ - जहाँ पर शूरवीर विद्वान् पुरुष होते हैं, वे परस्पर रक्षा करते हैं ॥३॥
टिप्पणी -
३−(देवम्) विजयिनम् (सवितारम्) प्रेरकम् (धातारम्) धारकम् (उत) अपि च (पूषणम्) पोषकम् (त्वष्टारम्) त्वक्षू तनूकरणे-तृन्। सूक्ष्मीकर्तारम्। प्रवीणं पुरुषम् (अग्रियम्) अ० ५।२।८। अग्रेभवम्। अन्यत् पूर्ववत् म० १ ॥