अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 20
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
सर्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। सर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठसर्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒: । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑: । सर्वा॑भि: । पत्नी॑भि: । स॒ह । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२०॥
स्वर रहित मन्त्र
सर्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः। सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठसर्वान् । देवान् । इदम् । ब्रूम: । सत्यऽसंधान् । ऋतऽवृध: । सर्वाभि: । पत्नीभि: । सह । ते । न: । मुञ्चन्तु । अंहस: ॥८.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 20
विषय - कष्ट हटाने के लिये उपदेश।
पदार्थ -
(इदम्) अब (सर्वान्) सब (देवान्) व्यवहार जाननेवालों, (सत्यसंधान्) सत्य के खोजनेवालों, और (ऋतवृधः) सत्य ज्ञान से बढ़ानेवालों का (ब्रूमः) हम कथन करते हैं। [अपनी] (सर्वाभिः) सब (पत्नीभिः सह) पत्नियों [वा पालन शक्तियों] के साथ, (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) बचावें ॥२०॥
भावार्थ - मनुष्य सब व्यवहारकुशल, सत्यशील, धर्म्मात्मा स्त्री-पुरुषों से शिक्षा प्राप्त करके आनन्दित होवें ॥२०॥
टिप्पणी -
२०−(सर्वान्) समस्तान् (देवान्) व्यवहारिणः पुरुषान् (सत्यसंधान्) सत्या संधा, अनुसन्धानमन्वेषणं येषां तान् (ऋतवृधः) सत्यज्ञानेन बुद्धिशीलान्। धार्मिकान्। अन्यत् पूर्ववत्-म० १९ ॥