अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 5
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो। ज॒ठरे॑ वाजिनीवसो ॥
स्वर सहित पद पाठइन्द्र॑ । सोमा॑: । सु॒ता: । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ । वाजिनीऽवसो ॥२४.५॥
स्वर रहित मन्त्र
इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो। जठरे वाजिनीवसो ॥
स्वर रहित पद पाठइन्द्र । सोमा: । सुता: । इमे । तान् । दधिष्व । शतक्रतो इति शतऽक्रतो ॥ जठरे । वाजिनीवसो इति । वाजिनीऽवसो ॥२४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 5
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले, (वाजिनीवसो) अन्नयुक्त क्रियाओं में बसानेवाले ! (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (जठरे) प्रसिद्ध हुए जगत् में (इमे) यह (सोमाः) पदार्थ (सुताः) उत्पन्न हुए हैं, (तान्) उनको (दधिष्व) धारण कर ॥॥
भावार्थ - मनुष्य सृष्टि के पदार्थों की विद्या जानकर ऐश्वर्यवान् होवें ॥॥
टिप्पणी -
−(इन्द्र) हे परमैश्वर्यवन् (सोमाः) पदार्थाः (सुताः) निष्पन्नाः (इमे) दृश्यमानाः (तान्) (दधिष्व) धत्स्व। धर (शतक्रतो) हे बहुकर्मन् ! बहुप्रज्ञ (जठरे) जनेररष्ठ च। उ० ।३८। जनी प्रादुर्भावे-अरप्रत्ययः, ठश्चान्तादेशः। प्रादुर्भूते जगति। जातेऽस्मिन् जगति दयानन्दभाष्ये (वाजिनीवसो) वाजोऽन्नम्-निघ० २।७। तस्माद्-इनि, ङीप्। हे अन्नयुक्तासु क्रियासु वासयितः ॥