अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 7
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब। आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
स्वर सहित पद पाठइ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । न॒: । पि॒ब॒ ॥ आ॒ऽगत्य॑ । वृष॑ऽभि: । सु॒तम् ॥२४.७॥
स्वर रहित मन्त्र
इममिन्द्र गवाशिरं यवाशिरं च नः पिब। आगत्या वृषभिः सुतम् ॥
स्वर रहित पद पाठइमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । न: । पिब ॥ आऽगत्य । वृषऽभि: । सुतम् ॥२४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 7
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (नः) हमारे (इमम्) इस (वृषभिः) बलवानों करके (सुतम्) सिद्ध किये गये (गवाशिरम्) पृथिवी पर फैले हुए (च) और (यवाशिरम्) अन्न के भोजनवाले पदार्थ को (आगत्य) आकर (पिब) पी ॥७॥
भावार्थ - मनुष्य संसार के बीच उत्तम पदार्थों का भोजन-पान करके बलवान् होवें ॥७॥
टिप्पणी -
७−(इमम्) (इन्द्र) हे परमैश्वर्यवन् (गवाशिरम्) म० १। पृथिव्यां व्याप्तम् (यवाशिरम्) अशेर्नित्। उ० १।२। यव+आङ्+अश भोजने-किरन्। अन्नभोजनयुक्तं पदार्थम् (च) (नः) अस्माकम् (पिब) (आगत्य) अस्मान् प्राप्य (वृषभिः) बलवद्भिः (सुतम्) साधितम् ॥