अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 8
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒ सोमं॑ चोदामि पी॒तये॑। ए॒ष रा॑रन्तु ते हृ॒दि ॥
स्वर सहित पद पाठतुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ॥ ए॒ष: । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥२४.८॥
स्वर रहित मन्त्र
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये। एष रारन्तु ते हृदि ॥
स्वर रहित पद पाठतुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ॥ एष: । ररन्तु । ते । हृदि ॥२४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 8
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले जन] (तुभ्य) तेरे लिये (इत्) ही (स्वे) अपने (ओक्ये) घर में (पीतये) पीने को (सोमम्) सोमरस [महौषधि] (चोदयामि) भेजता हूँ। (एषः) यह (ते) तेरे (हृदि) हृदय में (रारन्तु) अत्यन्त रमे ॥८॥
भावार्थ - मनुष्य उत्तम-उत्तम पदार्थों को रुचि के साथ खावें, जिससे हृदय में उत्तम रस उत्पन्न होकर सब शरीर में फैले और बल बढ़े ॥८॥
टिप्पणी -
८−(तुभ्य) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्लुक्। तुभ्यम् (इत्) एव (इन्द्र) हे परमैश्वर्यवन् (स्वे) स्वकीये (ओक्ये) ऋहलोर्ण्यत्। पा० ३।१।१२४। उच समवाये-ण्यत् कुत्वं च। ओकसि। गृहे (सोमम्) महौषधिरसम् (चोदामि) प्रेरयामि (पीतये) पानाय (एषः) सोमः (रारन्तु) रमु क्रीडायाम्-यङ्लुकि लोट्, नुमभावश्छान्दसः सांहितिको दीर्घः। भृशं रमताम् (ते) तव (हृदि) हृदये ॥