अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 13
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑। न वि॑न्धे अस्य सुष्टु॒तिम् ॥
स्वर सहित पद पाठतञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमा॑: । इन्द्र॑स्य । व॒ज्रिण॑: ॥ न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥७०.१३॥
स्वर रहित मन्त्र
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः। न विन्धे अस्य सुष्टुतिम् ॥
स्वर रहित पद पाठतञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमा: । इन्द्रस्य । वज्रिण: ॥ न । विन्धे । अस्य । सुऽस्तुतिम् ॥७०.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 13
विषय - १०-२० परमेश्वर की उपासना का उपदेश।
पदार्थ -
(वज्रिणः) अत्यन्त पराक्रमवाले (इन्द्रस्य) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर] के (तुञ्जे तुञ्जे) दान-दान में (ये) जो (उत्तरे) उत्तम-उत्तम (स्तोमाः) स्तोत्र हैं, [उन से] उसकी (सुष्टुतिम्) सुन्दर स्तुति (न विन्धे) मैं नहीं पाता हूँ ॥१३॥
भावार्थ - परमात्मा ने प्राणियों के सुख के लिये अनन्त पदार्थ दिये हैं, अल्पज्ञ मनुष्य उनकी गणना करके उसकी स्तुति नहीं कर सकता ॥१३॥
टिप्पणी -
१३−(तुञ्जे तुञ्जे) तुजि हिसायां पालने च-भावे घञ्। तुजस्तुञ्जतेर्दानकर्मणः-निरु० ६।१७। दाने दाने-निरु० ६।१८। (ये) (उत्तरे) उत्कृष्टाः (स्तोमाः) स्तोत्राणि (इन्द्रस्य) परमैश्वर्यवतो जगदीश्वरस्य (वज्रिणः) वीर्यवतः। प्रशस्तपराक्रमिणः (न) निषेधे (विन्धे) विद्लृ लाभे-लट्, दकारस्य धकारः। विन्दे। विन्दामि। प्राप्नोमि (अस्य) परमेश्वरस्य (सुष्टुतिम्) शोभनां स्तुतिम् ॥