अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 5
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑। सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥
स्वर सहित पद पाठअत॑: । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒व: । वा॒ । रो॒च॒नात् । अधि॑ ॥ सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिर॑: ॥७०.५॥
स्वर रहित मन्त्र
अतः परिज्मन्ना गहि दिवो वा रोचनादधि। समस्मिन्नृञ्जते गिरः ॥
स्वर रहित पद पाठअत: । परिऽज्मन् । आ । गहि । दिव: । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिर: ॥७०.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 5
विषय - १-९ राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(अतः) इसलिये, (परिज्मन्) हे सर्वत्र गतिवाले शूर ! (दिवः) विजय की इच्छा से (वा) और (रोचनात्) प्रीति भाव से (अधि) ऊपर (आ गहि) आ, (अस्मिन्) इस [वचन] में (गिरः) हमारी स्तुतियाँ (सम्) ठीक-ठीक (ऋञ्जते) सिद्ध होती हैं ॥॥
भावार्थ - पूर्वोक्त प्रकार से आवश्यकता जताकर श्रेष्ठ प्रजागण धीर-वीर पुरुष को उत्तम कर्मों में प्रवृत्त करें ॥॥
टिप्पणी -
−(अतः) अस्मात् पूर्वोक्तात् कारणात् (परिज्मन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। परि+अज गतिक्षेपणयोः-मनिन्, अकारलोपः। हे सर्वतो गतिशील (आ गहि) आगच्छ (दिवः) दिवु विजिगीषायाम्-क्विप्। विजयेच्छायाः सकाशात् (वा) चार्थे (रोचनात्) रुच दीप्तावभिप्रीतौ च युच्। प्रीतिभावात् (अधि) उपरि (सम्) सम्यक् (अस्मिन्) वचसि (ऋञ्जते) ऋञ्जतिः प्रसाधनकर्मा-निरु० ६।२१। प्रकर्षेण सिध्यन्ति (गिरः) स्तुतयः-निरु० १।१० ॥