अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 11
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे। युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
स्वर सहित पद पाठइन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ॥ युज॑म् । वृ॒त्रेषु॑ । व॒ज्रि॒ण॑म् ॥७०.११॥
स्वर रहित मन्त्र
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे। युजं वृत्रेषु वज्रिणम् ॥
स्वर रहित पद पाठइन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥७०.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 11
विषय - १०-२० परमेश्वर की उपासना का उपदेश।
पदार्थ -
(वयम्) हम (अर्भे) चलते हुए (महाधने) बहुत धन प्राप्त करानेवाले संग्राम में [अथवा बहुत धन में] (युजम्) सहायकारी और (वृत्रेषु) रोकनेवाले शत्रुओं पर (वज्रिणम्) वज्रधारी (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर] को, (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर] को (हवामहे) बुलाते हैं ॥११॥
भावार्थ - युद्धों में तथा बहुत धन में वीर पुरुष−“हे इन्द्र जगदीश्वर ! हे इन्द्र जगदीश्वर”− ऐसा स्मरण करके अपना बल बढ़ावें और प्रयत्न करके शत्रुओं को हटावें ॥११॥
टिप्पणी -
यह मन्त्र सामवेद में भी है-पू० २।४।६ ॥ ११−(इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (वयम्) (महाधने) महाधने संग्रामनाम-निघ० २।१७। प्रभूतधननिमित्ते संग्रामे। यद्वा, महच्च तद् धनं च। प्रभूते धने (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (अर्भे) अर्त्तिगॄभ्यां भन्। उ० ३।१२। ऋ गतौ-भन्। गतिशीले (हवामहे) आह्वयामहे (युजम्) युजिर् योगे, युज समाधौ च-क्विप्। सहायकम् (वृत्रेषु) आवरकेषु शत्रुषु (वज्रिणम्) दण्डधारिणम् ॥