अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 4
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे। ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
स्वर सहित पद पाठए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्ज: । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ॥ ओज॑: । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । अस॑: । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒न: । वृ॒धे ॥९४.४॥
स्वर रहित मन्त्र
एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे। ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥
स्वर रहित पद पाठएव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्ज: । स्कम्भम् । धरुणे । आ । वृषऽयसे ॥ ओज: । कृष्व । सम् । गृभाय । त्वे इति । अपि । अस: । यथा । केऽनिपानाम् । इन: । वृधे ॥९४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 4
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
[हे राजन् !] (एव) इस प्रकार से (पतिम्) पालन करनेवाले, (द्रोणसाचम्) ज्ञान से सींचनेवाले, (सचेतसम्) सचेत, (ऊर्जः) बल के (स्कम्भम्) खम्भे रूप पुरुष से (धरुणे) धारण करने में (आ) सब प्रकार (वृषायसे) तू बलवान् के समान आचरण करता है। तू (ओजः) पराक्रम को (कृष्व) कर और (त्वे) अपने में [उस को] (सम् गृभाय) एकत्र कर, (अपि) और (केनिपानाम्) आत्मा में झुकनेवाले बुद्धिमानों के (इनः यथा) स्वामी के समान (वृधे) बढ़ती के लिये (असः) तू वर्तमान हो ॥४॥
भावार्थ - राजा को योग्य है कि वीर बुद्धिमान् पुरुषों के साथ दया करके बल बढ़ावे और प्रजा की उन्नति करे ॥४॥
टिप्पणी -
४−(एव) एवम् (पतिम्) पालकम् (द्रोणसाचम्) कॄवृजॄसिद्रु०। उ० ३।१०। दॄ गतौ-नप्रत्ययः+षच समवाये सेचने च-ण्वि। ज्ञानेन सेक्तारम् (सचेतसम्) चेतसा युक्तम् (ऊर्जः) बलस्य (स्कम्भम्) स्तम्भं यथा (धरुणे) धारणे (आ) समन्तात् (वृषायसे) वृषन्-क्यङ्। वृषेव बलवानिवाचरसि (ओजः) बलम् (कृष्व) कुरुष्व (सम् गृभाय) सं गृहाण (त्वे) त्वयि (अपि) किञ्च (असः) भवेः (यथा) सादृश्ये (केनिपानाम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। के+नि+पत्लृ पतने-डप्रत्ययः। के आत्मनि पतन्ति केनिपाः। आकेनिपो मेधाविनाम-निघ० ३।१। मेधाविनाम् (इनः) स्वामी (वृधे) वर्धनाय ॥