अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 3
एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्। प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
स्वर सहित पद पाठआ । इ॒न्द्र॒ऽवाह॑: । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रास॑: । त॒वि॒षास॑: । ए॒न॒म् ॥ प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमाद॑: । व॒ह॒न्तु॒ ॥९४.३॥
स्वर रहित मन्त्र
एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम्। प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥
स्वर रहित पद पाठआ । इन्द्रऽवाह: । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रास: । तविषास: । एनम् ॥ प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमाद: । वहन्तु ॥९४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 3
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(नृपतिम्) मनुष्यों के स्वामी, (वज्रबाहुम्) भुजा पर वज्र रखनेवाले, (उग्रम्) प्रचण्ड (प्रत्वक्षसम्) [शत्रुओं के] रेत डालनेवाले, (वृषभम्) सुख की बरसा करनेवाले, (ईम्) प्राप्तियोग्य (एनम्) इस (सत्यशुष्मम्) सच्चे बल रखनेवाले [राजा] को (उग्रासः) प्रचण्ड, (तविषासः) बलवान् (सधमादः) मिलकर उत्सव मनानेवाले, (इन्द्रवाहः) ऐश्वर्यवान् राजा के वाहन [घोड़ा हाथी आदि] (अस्मत्रा) हमारे बीच में (आ आ वहन्तु) अवश्य ही लावें ॥३॥
भावार्थ - राजा अपने बलवान् सैनिकों के साथ शत्रुओं के मारने के उद्यत होवे ॥३॥
टिप्पणी -
३−(आ) समन्तात् (इन्द्रवाहः) वह प्रापणे-ण्वि इन्द्रस्य वोढारोऽश्वगजादयः (नृपतिम्) (वज्रबाहुम्) हस्ते वज्रयुक्तम् (उग्रम्) प्रचण्डम् (उग्रासः) उग्राः (तविषासः) तवेर्णिद्वा। उ० १।४८। तव वृद्धौ-डिषच्, असुक् च। तविषाः। बलवन्तः (एनम्) (प्रत्वक्षसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। प्र+त्वक्षू तनूकरणे-असि। शत्रूणां प्रकर्षेण तनूकर्तारम् (वृषभम्) सुखस्य वर्षकम् (सत्यशुष्मम्) यथार्थवज्रोपेतम् (आ) समन्तात् (ईम्) प्राप्तव्यम् (अस्मत्रा) अस्मासु (सधमादः) सहमादयन्तः (वहन्तु) प्रापयन्तु ॥