अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 8
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्। स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
स्वर सहित पद पाठगि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौ: । क्र॒न्द॒न् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ॥ स॒मी॒ची॒ने इति॑ स॒म् ई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्ण॑: । पी॒त्वा । मद॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥९४.८॥
स्वर रहित मन्त्र
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
स्वर रहित पद पाठगिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौ: । क्रन्दन् । अन्तरिक्षाणि । कोपयत् ॥ समीचीने इति सम् ईचीने । धिषणे इति । वि । स्कभायति । वृष्ण: । पीत्वा । मद । उक्थानि । शंसति ॥९४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 8
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(क्रन्दत्) पुकारता हुआ (द्यौः) प्रकाशमान परमात्मा (अज्रान्) चलते हुए और (रेजमानान्) काँपते हुए (गिरीन्) मेघों को (अधारयत्) धारण करता और (अन्तरिक्षाणि) आकाशस्थ लोकों को (कोपयत्) प्रकाशित करता, (समीचीने) आपस में मिले हुए (धिषणे) दोनों सूर्य और भूमि को (वि) विविध प्रकार (स्कभायति) थाँभता और (वृषाः) ऐश्वर्यों को (पीत्वा) ग्रहण करके (मदे) आनन्द में (उक्थानि) कहने योग्य वचनों का (शंसति) उपदेश करता है ॥८॥
भावार्थ - जो परमात्मा भाप रूप मेघ को धारण करके वृष्टि करता, जगत् को उष्णता, सूर्य, भूमि आदि लोकों को आकर्षण द्वारा दृढ़ रखता और ऋषियों द्वारा वेदों का उपदेश करता है, सब मनुष्य उसी की उपासना करें ॥८॥
टिप्पणी -
८−(गिरीन्) मेघान् (अज्रान्) अ० २०।६१।। शीघ्रगमनान् (रेजमानान्) कम्पयमानान् (अधारयत्) धारयति (द्यौः) प्रकाशमानः परमात्मा (क्रन्दत्) क्रदि आह्वाने रोदने च-शतृ। क्रन्दन्। आह्वयन् (अन्तरिक्षाणि) आकाशस्थलोका (कोपयत्) कुप द्युतौ क्रोधे च। दीपयति। प्रकाशयति (समीचीने) संगच्छमाने (धिषणे) अ० २०।३१।। द्यावापृथिव्यौ-निघ० ३।३०। सूर्यभूमिलोकौ (वि) विविधम् (स्कभायति) स्तभ्नाति स्तम्भयति (वृषाः) वृषु सेचने ऐश्वर्ये च-कनिन्। ऐश्वर्याणि (पीत्वा) गृहीत्वा (मदे) आनन्दे (उक्थानि) कथनीयानि वचनानि (शंसति) उपदिशति ॥