अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 3
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑। न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
स्वर सहित पद पाठय: । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वका॑म: । सु॒नोति॑ ॥ न । गा: । इन्द्र॑: । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥९६.३॥
स्वर रहित मन्त्र
य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
स्वर रहित पद पाठय: । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवकाम: । सुनोति ॥ न । गा: । इन्द्र: । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥९६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 3
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(यः) जो (देवकामः) दिव्यगुण चाहनेवाला मनुष्य (उशता) कामनावाले (मनसा) मन से और (सर्वहृदा) पूरे हृदय से (अस्मै) इस [संसार] के लिये (सोमम्) सोम [तत्त्व रस] को (सुनोति) निचोड़ता है। (इन्द्रः) इन्द्र [महाप्रतापी राजा] (तस्य) उस [मनुष्य] की (गाः) वाणियों को (न) नहीं (परा ददाति) नष्ट करता है, (अस्मै) उसके लिये वह (प्रशस्तम्) प्रशंसनीय, (चारुम्) मनोहर व्यवहार (इत्) ही (कृणोति) करता है ॥३॥
भावार्थ - राजा और विद्वान् लोग संसार के हित के लिये परस्पर श्रेष्ठ व्यवहार करें ॥३॥
टिप्पणी -
३−(यः) पुरुषः (उशता) कामयमानेन (मनसा) चित्तेन (सोमम्) तत्त्वरसम् (अस्मै) दृश्यमानाय संसाराय (सर्वहृदा) पूर्णहृदयेन (देवकामः) दिव्यगुणान् कामयमानः (सुनोति) निष्पादयति (न) निषेधे (गाः) वाणीः (इन्द्रः) महाप्रतापी राजा (तस्य) पुरुषस्य (परा ददाति) परादानं विनाशः। विनाशयति (प्रशस्तम्) प्रशंसनीयम् (इत्) एव (चारुम्) मनोहरं व्यवहारम् (अस्मै) पुरुषाय (कृणोति) करोति ॥