अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 5
अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
स्वर सहित पद पाठअ॒श्व॒ऽयन्त॑: । ग॒व्यन्त॑: । वा॒जय॑न्त: । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ॥ आ॒ऽभूष॑न्त: । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒॥९६.५॥
स्वर रहित मन्त्र
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ। आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
स्वर रहित पद पाठअश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 5
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
[हे राजन् !] (अश्वायन्तः) घोड़े चाहते हुए (गव्यन्तः) भूमि चाहते हुए, (वाजयन्तः) बल वा अन्न चाहते हुए हम (त्वा) तुझे (उपगन्तवै) आने के लिये (उ) अवश्य करके (हवामहे) बुलाते हैं। (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] (ते) तेरी (नवायाम्) श्रेष्ठ (सुमतौ) सुमति में (आभूषन्तः) शोभा पाते हुए (वयम्) हम (त्वा) तुझको (शुनम्) सुख से (हुवेम) बुलावें ॥॥
भावार्थ - प्रजागण धर्मात्मा राजा की नीति में चलकर सदा उन्नति करें ॥॥
टिप्पणी -
−(अश्वायन्तः) अश्व-क्यच, शतृ। अश्वाघस्यात्। पा० ७।४।३७। इत्वात्त्वम्। अश्वान् इच्छन्तः (गव्यन्तः) गो-क्यच्, शतृ। वान्तो यि प्रत्यये। पा० ६।१।७९। अवादेशः। गां भूमिमिच्छन्तः (वाजयन्तः) बलमन्नां वेच्छन्तः (हवामहे) आह्वयामः (त्वा) त्वाम् (उपगन्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। गमेः-तवैप्रत्ययः। आगन्तुम् (उ) अवधारणे (आभूषन्तः) अलंक्रियमाणाः। शोभायमानाः (ते) तव (सुमतौ) शोभनायां बुद्धौ (नवायाम्) णु स्तुतौ-अप्। स्तुत्यायाम् (वयम्) (इन्द्र) महाप्रतापिन् राजन् (त्वा) (शुनम्) सुखेन (हुवेम) आह्वयेम ॥