अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 3
यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्। यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठयम् । क्रन्द॑सी॒ इति॑ । अव॑त: । च॒स्क॒भा॒ने इति॑ । भि॒यसा॑ने॒ इति॑ । रोद॑सी॒ इति॑ । अह्व॑येथाम् । यस्य॑ । अ॒सौ । पन्था॑: । रज॑स: । वि॒ऽमान॑: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.३॥
स्वर रहित मन्त्र
यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम्। यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठयम् । क्रन्दसी इति । अवत: । चस्कभाने इति । भियसाने इति । रोदसी इति । अह्वयेथाम् । यस्य । असौ । पन्था: । रजस: । विऽमान: । कस्मै । देवाय । हविषा । विधेम ॥२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 3
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(यम्) जिसको (चस्कभाने) परस्पर रोकती हुई (क्रन्दसी) ललकारती हुई दो सेनाएँ (अवतः) प्राप्त होती हैं, और [जिसको] (भियसाने) हे डरती हुई (रोदसी) सूर्य और भूमि ! (आह्वयेथाम्) तुम दोनों ने पुकारा है। (यस्य) जिसका (असौ पन्थाः) यह मार्ग (रजसः) संसार का (विमानः) विविध प्रकार नापनेवाला वा विमान रूप है, उस (कस्मै) प्रजापति सुखदाता परमेश्वर की (देवाय) उत्तम गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥३॥
भावार्थ - परमेश्वर को ही दो लड़ती हुई सेनाएँ पुकारती हैं, उसीकी आज्ञा में सूर्य आदि लोक रहते हैं, उसीकी व्याप्ति संसार भर में है, उसी परब्रह्म की भक्ति करके सब मनुष्य पुरुषार्थ करें ॥३॥ इस मन्त्र का पूर्वार्ध कुछ भेद से ऋ० १०।१२१।६ और यजु० ३२।७। और उत्तरार्ध यजु० ३२।६ में है ॥
टिप्पणी -
३−(यम्) प्रजापतिम् (क्रन्दसी) सर्वधातुभ्य इन्। उ० ४।११८। इति क्रदि आह्वाने रोदने च-असुन्। उगितश्च। पा० ४।१।६। इति ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। क्रन्दस्यौ। आक्रोशन्त्यौ। आह्वानं शब्दं वा कुर्वाणे द्वे सेने (अवतः) अव रक्षणगतिकान्तिप्रीत्यादिषु। अत्र गतौ प्राप्तौ-लट्। गच्छतः। प्राप्नुतः। (चस्कभाने) स्कभि प्रतिबन्धे-कानच्। प्रतिबन्धं कुर्वाणे (भियसाने) छन्दस्यसानच् शुजॄभ्याम्। उ० २।८६। इति ञिभी भये-असानच्। बिभ्यत्यौ (रोदसी) अ० ४।१।४। भूतानां निरोधनशीले द्यावापृथिव्यौ (अह्वयेथाम्) ह्वेञ् आह्वाने, स्पर्धायां शब्दे च-लङ्। युवाम् आहूतवत्यौ। (यस्य) कस्य। प्रजापतेः (असौ) प्रसिद्धः। दृश्यमानः (पन्थाः) पतस्थ च। उ० ४।१२। इति पत्लृ गतौ-इन्। मार्गः। (रजसः) अ० ४।१।४। लोकस्य (विमानः) वि+माङ् माने ल्युट्। परिच्छेदकः सर्वमानः। देवरथः। व्योमयानम्। विमानवत्। अन्यद् व्याख्यातम् ॥