अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 7
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्। स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठहि॒र॒ण्य॒ऽग॒र्भ: । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒त: । पति॑: । एक॑: । आ॒सी॒त् । स: । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.७॥
स्वर रहित मन्त्र
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठहिरण्यऽगर्भ: । सम् । अवर्तत । अग्रे । भूतस्य । जात: । पति: । एक: । आसीत् । स: । दाधार । पृथिवीम् । उत । द्याम् । कस्मै । देवाय । हविषा । विधेम ॥२.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 7
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(हिरण्यगर्भः) तेजवाले लोकों का आधार (अग्रे) पहिले ही पहिले (सम्) ठीक-ठीक (अवर्तत) वर्त्तमान था। वही (जातः) प्रकट होकर (भूतस्य) पृथिवी आदि पञ्चभूत का (एकः) एक (पतिः) पति, ईश्वर (आसीत्) हुआ, (सः) उसने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (दाधार) धारण किया, उस (कस्मै) सुखदायक प्रजापति परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥७॥
भावार्थ - सर्वशक्तिमान् अविनाशी परमात्मा प्रलयकाल में विद्यमान था। उसके कर्मों से ज्ञात होता है कि उस अकेले ने सूक्ष्म पञ्चभूत का यथावत् संयोग वियोग करके पृथिवी, सूर्य आदि सृष्टि को रचा और धारण किया है, उसकी उपासना से उत्तम गुण प्राप्त करके आनन्द भोगें ॥७॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।१, यजु० १३।४ तथा २५।१० और निरु० १०।२३ में है ॥
टिप्पणी -
७−(हिरण्यगर्भः) हिरण्यं व्याख्यातम्-अ० १।९।२। गर्भश्च, अ० ३।१०।१२। हिरण्यगर्भो हिरण्यमयो गर्भो हिरण्यमयो गर्भोऽस्येति-वा निरु० १०।२३। हिरण्यानि सूर्यादितेजांसि गर्भे यस्य स परमात्मा-इति दयानन्दभाष्ये यजु० २५।१०। (सम्) प्रकर्षेण (अवर्तत) वृतु वर्तने-लङ्। वर्तमान आसीत् (अग्रे) सृष्टेः प्राक् (भूतस्य) पृथिव्यप्तेजोवाय्वाकाशपञ्चकस्य वस्तुतत्त्वस्य। उदकस्य-निघ० १।१२। (जातः) उत्पन्नः। प्रादुर्भूतः। प्रसिद्धः सन् (पतिः) अ० १।१।१। पाता। रक्षिता। ईश्वरः। स्वतन्त्रः (एकः) मुख्यः। अद्वितीयः (आसीत्) अभवत् (दाधार) धृञ् धारणे-लिट्। धृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) अ० २।१२।६। प्रकाशम्। सूर्यम्। अन्यद् गतम् ॥