अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्। अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥
स्वर सहित पद पाठअ॒न्त॒रा । इ॒मे इति॑ । नभ॑सी॒ इति॑ । घोष॑: । अ॒स्तु॒ । पृथ॑क् । ते॒ । ध्व॒नय॑: । य॒न्तु॒ । शीभ॑म् । अ॒भि । क्र॒न्द॒। स्त॒नय॑ । उ॒त्ऽपिपा॑न: । श्लो॒क॒ऽकृत् । मि॒त्र॒ऽतूर्या॑य । सु॒ऽअ॒र्धी ॥२०.७॥
स्वर रहित मन्त्र
अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्। अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी ॥
स्वर रहित पद पाठअन्तरा । इमे इति । नभसी इति । घोष: । अस्तु । पृथक् । ते । ध्वनय: । यन्तु । शीभम् । अभि । क्रन्द। स्तनय । उत्ऽपिपान: । श्लोकऽकृत् । मित्रऽतूर्याय । सुऽअर्धी ॥२०.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 7
विषय - संग्राम में जय का उपदेश।
पदार्थ -
(इमे) इन (नभसी) सूर्य और पृथिवी के (अन्तरा) बीच (घोषः) तेरा शब्द (अस्तु) होवे, (ते) तेरी (ध्वनयः) ध्वनें (शीभम्) शीघ्र (पृथक्) नाना रूप से (यन्तु) जावें। (उत्पिपानः) ऊपर चढ़ता हुआ, (श्लोककृत्) बड़ाई करनेवाला, (स्वर्धी) बड़ी वृद्धिवाला तू (मित्रतूर्याय) मित्रों के वेग के लिये (अभि) चारों ओर (क्रन्द) शब्द कर और (स्तनय) गड़-गड़ाकर गर्ज ॥७॥
भावार्थ - योधा पुरुष दुन्दुभि आदि बाजों की ध्वनि से शत्रुओं को जीत कर कीर्ति पावें ॥७॥
टिप्पणी -
७−(अन्तरा) मध्ये (इमे) प्रत्यक्षे (नभसी) द्यावापृथिव्यौ−निघ० ३।३०। (घोषः) ध्वनिः (अस्तु) भवतु (पृथक्) नानारूपेण (ते) तव (ध्वनयः) शब्दाः (यन्तु) गच्छन्तु (शीभम्) शीभृ कत्थने−घञ्। क्षिप्रम्−निघ० २।१५। (अभि) (क्रन्द) शब्दं कुरु (स्तनय) बहु गर्ज (उत्पिपानः) पि गतौ−यङि शानचि छान्दसं रूपम्। उत्पेपीयमानः। अत्यर्थमुद्गच्छन् (श्लोककृत्) स्तुतिकर्ता। श्लोको वाङ्नाम−निघ० १।११। (मित्रतूर्याय) मित्र+तूरी गतित्वरणहिंसनयोः−ण्यत्। मित्राणां वेगकरणाय (स्वर्धी) सु+ऋधु वृद्धौ−णिनि। सुष्ठु वृद्धिशीलः ॥