अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि। इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ॥
स्वर सहित पद पाठधी॒भि: । कृ॒त: । प्र । व॒दा॒ति॒ । वाच॑म् । उत् । ह॒र्ष॒य॒ । सत्व॑नाम् । आयु॑धानि । इन्द्र॑ऽमेदी । सत्व॑न: । नि । ह्व॒य॒स्व॒ । मि॒त्रै: । अ॒मित्रा॑न् । अव॑ । ज॒ङ्घ॒नी॒हि॒ ॥२०.८॥
स्वर रहित मन्त्र
धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि। इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्राँ अव जङ्घनीहि ॥
स्वर रहित पद पाठधीभि: । कृत: । प्र । वदाति । वाचम् । उत् । हर्षय । सत्वनाम् । आयुधानि । इन्द्रऽमेदी । सत्वन: । नि । ह्वयस्व । मित्रै: । अमित्रान् । अव । जङ्घनीहि ॥२०.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 8
विषय - संग्राम में जय का उपदेश।
पदार्थ -
(धीभिः) शिल्पकर्म से (कृतः) बनाया गया वह (वाचम्) शब्द (प्रवदाति) अच्छे प्रकार बोले। (सत्वनाम्) हमारे वीरों के (आयुधानि) शस्त्रों को (उत् हर्षय) ऊँचा उठा। (इन्द्रमेदी) ऐश्वर्यवान् सेनापति का मित्र तू (सत्वनः) हमारे वीरों को (नि) नियम से (ह्वयस्व) बुला। (मित्रैः) मित्रों के साथ (अमित्रान्) वैरियों को (अव जङ्घनीहि) गिरा कर मार डाल ॥८॥
भावार्थ - सेनादल दुन्दुभि का शब्द सुनकर अपने शस्त्र लेकर शत्रुओं पर धावा करके मारें ॥८॥
टिप्पणी -
८−(धीभिः) शिल्पकर्मभिः। धीः कर्मनाम−निघ० २।१। (कृतः) निष्पादितः (प्र) प्रकर्षेण (वदाति) कथयतु (वाचम्) शब्दम् (उत् हर्षय) ऊर्ध्वानि कुरु (सत्वनाम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्, दस्य तः। गतिशीलानां वीराणाम् (आयुधानि) शस्त्राणि (इन्द्रमेदी) ऐश्वर्यवतः सेनापतेः स्नेही (सत्वनः) वीरान् (नि) नियमेन (ह्वयस्व) आह्वय (मित्रैः) सुहृद्भिः (अमित्रान्) शत्रून् (अव) अधः-पातेन (जङ्घनीहि) हन हिंसागत्योः−यङ्लुकि लोटि छान्दसं रूपम्। जङ्घनीहि भृशं मारय ॥