अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति। तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ॥
स्वर सहित पद पाठतम् । सम् । आ॒प्नो॒ति॒ । जू॒तिऽभि॑: । तत॑: । न । अप॑ । चि॒कि॒त्स॒ति॒ । तेन॑ । अ॒मृत॑स्य । भ॒क्षम् । दे॒वाना॑म् । न । अव॑ । रु॒न्ध॒ते॒ ॥2.१५॥
स्वर रहित मन्त्र
तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति। तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥
स्वर रहित पद पाठतम् । सम् । आप्नोति । जूतिऽभि: । तत: । न । अप । चिकित्सति । तेन । अमृतस्य । भक्षम् । देवानाम् । न । अव । रुन्धते ॥2.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 15
Subject - Rohita, the Sun
Meaning -
That infinite share of it, it receives from Divinity on way by its own dynamics of nature. From there, and from that path, it never deviates. By that very path and that relentless sincerity, it never restrains, never withholds, the rightful share of the divinities from Nature, (it gives, freely, profusely, because it receives freely and profusely only for that purpose.)