यजुर्वेद - अध्याय 3/ मन्त्र 47
ऋषिः - आगस्त्य ऋषिः
देवता - अग्निर्देवता
छन्दः - विराट् अनुष्टुप्,
स्वरः - गान्धारः
5
अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑। दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः॥४७॥
स्वर सहित पद पाठअक्र॑न्। कर्म॑। क॒र्म॒कृत॒ इति॑ कर्म॒ऽकृतः॑। स॒ह। वा॒चा। म॒यो॒भुवेति॑ मयः॒ऽभुवा॑। दे॒वभ्यः॑। कर्म॑। कृ॒त्वा। अस्त॑म्। प्र। इ॒त। स॒चा॒भु॒व॒ इति॑ सचाऽभुवः ॥४७॥
स्वर रहित मन्त्र
अक्रन्कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥
स्वर रहित पद पाठ
अक्रन्। कर्म। कर्मकृत इति कर्मऽकृतः। सह। वाचा। मयोभुवेति मयःऽभुवा। देवभ्यः। कर्म। कृत्वा। अस्तम्। प्र। इत। सचाभुव इति सचाऽभुवः॥४७॥
विषयः - के यज्ञयुद्धादिकर्माणि कर्तुं योग्या भवन्तीत्युपदिश्यते ॥
सपदार्थान्वयः -
ये मयोभुवा या मयः=सुखं भावयति तथा सत्यप्रियमंगलकारिण्या वाचा वेदवाण्या, स्वकीयया वा सह सङ्गे सचाभुवः ये सचा=परस्परं सग्यनुषङ्गिणो भवन्ति ते कर्मकृतः ये कर्माणि कुर्वन्ति ते कर्म कर्तुर्यदीप्सितमभीष्टयोग्यं चेष्टामयमुत्क्षेपणादिकमस्ति तत्कर्म्म अक्रन् कुर्वन्ति; त एतत् [कर्म] क्रियमाणं कृत्वा अनुष्ठाय देवेभ्यः विद्वद्भ्यो, दिव्यगुणसुखेभ्यो वा अस्तं=सुखमयं गृहं प्रेत=प्राप्नुवन्ति (प्रकृष्टं प्राप्नुवन्ति) ।। ३ । ४७ ।।
[कर्मकृतः कर्माक्रन्]
पदार्थः -
(अक्रन्) कुर्वन्ति अत्र लिङर्थे लुङ् । मन्त्रे घसह्वर॰ इति च्लेर्लुक (कर्म) कर्तुरीप्सिततमंकर्म ।। [अ० १ । ४ । ४९ ॥ कर्तुर्यदीप्सितमभीष्टयोग्यं चेष्टामयमुत्क्षेपणादिकमस्ति तत्कर्म (कर्मकृतः) ये कर्माणि कुर्वन्ति ते (सह) संगे (वाचा) वेदवाण्या स्वकीयया वा (मयोभुवा) या मयः=सुखं भावयति तया सत्यप्रियमङ्कलकारिण्या । मय इति सुखनामसु पठितम् ॥ निघं० ३ ।६ ॥अत्रान्तर्गतो ण्यर्थः क्विप्चेति क्विप् (देवेभ्यः) विद्वद्भ्यो दिव्यगुणसुखेभ्यो वा (कर्म) क्रियमाणम् (कृत्वा) अनुष्ठाय (अस्तम्) सुखमयं गृहम् । अस्तमिति गृहनामसु पठितम् ॥ निघं॰ ३ ।४ ॥ (प्र) प्रकृष्टार्थे (इत) प्राप्नुवन्ति । अत्र व्यत्ययो लडर्थे लोट् च (सचाभुव:) ये सचा=परस्परं संग्यनुषङ्किणौ भवन्ति ते ॥ अयं मंत्रः शत० २ ।५ ।२ ।२९ व्याख्यातः ॥ ४७ ॥
भावार्थः -
मनुष्यैर्नित्यं पुरुषार्थे वार्तितव्यम्, न कदाचिदालस्ये स्थातव्यम्।
[मयोभुवा वाचा सह ]
तथा–वेदविद्यासंस्कृतया वाण्या सह भवितव्यम्, न मूर्खत्वेन ।
[सचाभुवः]
सदा परस्परं प्रीत्या सहायः कर्त्तव्यः ।
[त एतत् [कर्म] कृत्वा देवेभ्योऽस्तं=सुखमयं गृहं प्रेत=प्राप्नुवन्ति]
ये चैवंभूतास्ते दिव्यसुखयुक्तं मोक्षरव्य व्यावहारिकं चानन्दं प्राप्य मोदन्ते, न चैवमलसा इति ।। ३ । ४७ ।।
भावार्थ पदार्थः -
भा॰ पदार्थ:-- कर्मकृतः=पुरुषषार्थिनः । कर्म=पुरुषार्थः । वाचा=वेदविद्यासंस्कृतया वाण्या ।सचाभुवः=सदा परस्परं प्रीत्या सहायकाः । अस्तम्=दिव्यसुखयुक्तं मोक्षारकं व्यावहारिकं चानन्दम् ।
विशेषः -
अगस्त्यः ।अग्निः=[पुरुषार्थी] ।विराडनुष्टुप् ।गान्धारः ।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal