Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 10
    ऋषिः - प्रजापतिर्ऋषिः देवता - पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते छन्दः - गायत्री,भूरिक् गायत्री, स्वरः - षड्जः
    2

    स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या। जु॒षा॒णोऽअ॒ग्निर्वे॑तु॒ स्वाहा॑। स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या। जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑॥१०॥

    स्वर सहित पद पाठ

    स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। स॒वि॒त्रा। स॒जूरिति॑ स॒ऽजूः। रात्र्या॑। इन्द्र॑व॒त्येतीन्द्र॑ऽवत्या। जु॒षा॒णः। अ॒ग्निः। वे॒तु॒। स्वाहा॑। स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। स॒वि॒त्रा। स॒जूरिति॑ स॒ऽजूः। उ॒षसा। इन्द्र॑व॒त्येतीन्द्र॑ऽवत्या। जु॒षा॒णः। सूर्यः॑। वे॒तु॒। स्वाहा॑ ॥१०॥


    स्वर रहित मन्त्र

    सजूर्देवेन सवित्रा सजू रात्र्येन्द्रवत्या । जुषाणो अग्निर्वेतु स्वाहा । सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्या । जुषाणः सूर्यो वेतु स्वाहा ॥


    स्वर रहित पद पाठ

    सजूरिति सऽजूः। देवेन। सवित्रा। सजूरिति सऽजूः। रात्र्या। इन्द्रवत्येतीन्द्रऽवत्या। जुषाणः। अग्निः। वेतु। स्वाहा। सजूरिति सऽजूः। देवेन। सवित्रा। सजूरिति सऽजूः। उषसा। इन्द्रवत्येतीन्द्रऽवत्या। जुषाणः। सूर्यः। वेतु। स्वाहा॥१०॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 10
    Acknowledgment

    सपदार्थान्वयः -

    अयमग्निः भौतिको देवेन सर्वजगद्योतकेन सवित्रा=जगदीश्वरेणोत्पादितया सर्वस्य जगत उत्पादकेनेश्वरेणोत्पादितया सृष्ट्या सह सजूः यः समानं जुषते=प्रीणाति स जुषाणः यो जुषते=सेवते सः इन्द्रवत्या इन्द्रो=बह्वी विद्युद् विद्यते यस्यां तया रात्र्या तमोरूपया सह [सजूः] यः समानं जुषते=प्रीणाति स स्वाहा ईश्वरस्य स्वा वागाह जुषाणः सन्  वेतु=सर्वान् पदार्थान् व्याप्नोति

     एवं सूर्य्यः सूर्यलोको देवेन सूर्यादिप्रकाशकेन सवित्रा=सकलजगदुत्पादकेन धारितया, सर्वान्तर्यामिना जगदीश्वरेणोत्पादितया सृष्ट्या सह सजूः उक्तार्थ: जुषाणः सेवमान इन्द्रवत्या सूर्यप्रकाशसहितया उषसा रात्र्यवसानोत्पन्नया दिवस हेतुना सहस्वाहा हुतामाहुतिं जुषाणः सेवमानः सन् हुतं द्रव्यं वेतु=व्याप्नोति ।। ३ । १० ।।

    [अयमग्निर्देवेन   सवित्रा=जगदीश्वरेणोत्पादितया सृष्ट्या सह ...रात्र्या  सह.....वेतु=सर्वान्

    पदार्थान् व्याप्नोति ]

    पदार्थः -

    (सजूः) यः समानं जुषते=सेवते सः (देवेन) सर्वजगद् द्योतकेन (सवित्रा) सर्वस्य जगत उत्पादकेनेश्वरेणोत्पादितया (सजूः) यः समानं जुषते=प्रीणाति सः (रात्र्या) तमोरूपया (इन्द्रवत्त्या) इन्द्रो=बह्वी विद्युद्विद्यते यस्यां तया । अत्र भूम्न्यर्थे मतुप् । स्तनयित्नुरेवेन्द्रः ॥ शत० १४ । ५। ७ ॥ ७ ॥ (जुषाणः) यो जुषते=सेवते सः (अग्निः) भौतिकः ( वेतु) व्याप्नोति । अत्र लडर्थे लोट् (स्वाहा) ईश्वरस्य स्वागाहेत्यस्मिन्नर्थे (सजू:) उक्तार्थ: (देवेन) सूर्यादिप्रकाशकेन (सवित्रा) सर्वांतर्यामिना जगदीश्वरेणोत्पादितया (सजूः) उक्तार्थ: (उषसा) रात्र्यवसानोत्पन्नया दिवसहेतुना (इन्द्रवत्या) सूर्यप्रकाशसहितयोषसा (जुषाणः) सेवमानः (सूर्य:) सूर्यलोकः (वेतु) व्याप्नोति । अत्रापि लडर्थे लोट् (स्वाहा) हुतामाहुतिम् ॥ अयं मंत्र: शत॰ २। २।३। ३७–३९ व्याख्यातः ।। १० ।।

    भावार्थः -

    -हे मनुष्याः ! यूयं योऽयमग्निरीश्वरेण निर्मितः स तत्सत्तया स्वस्वरूपं धारयन् सन् रात्रिस्थान् व्यवहारान् प्रकाशयति ।

    [एवं सूर्य:..... उषसा सह...... द्रव्यं वेतु=व्याप्नोति ]

    एवं च सूर्य उषःकालमेत्य सर्वाणि मूर्त्तद्रव्याणि प्रकाशयितुं शक्नोतीति विजानीत ।। ३ । १० ।।

    विशेषः -

    प्रजापतिः । पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च=भौतिकार्थः ॥ पूर्वार्द्धस्य गायत्र्युत्तरार्द्धस्य भुरिग्गायत्री च छन्दः । षड्ज: ।।

    इस भाष्य को एडिट करें
    Top