Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 56
    ऋषिः - बन्धुर्ऋषिः देवता - सोमो देवता छन्दः - गायत्री, स्वरः - षड्जः
    2

    व॒यꣳ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः। प्र॒जाव॑न्तः सचेमहि॥५६॥

    स्वर सहित पद पाठ

    व॒यम्। सो॒म॒। व्र॒ते। तव॑। मनः॑। त॒नूषु॑। बिभ्र॑तः। प्र॒जाव॑न्त॒ इति॑ प्रजाऽव॑न्तः। स॒चे॒म॒हि॒ ॥५६॥


    स्वर रहित मन्त्र

    वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥


    स्वर रहित पद पाठ

    वयम्। सोम। व्रते। तव। मनः। तनूषु। बिभ्रतः। प्रजावन्त इति प्रजाऽवन्तः। सचेमहि॥५६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 56
    Acknowledgment

    सपदार्थान्वयः -

    हे सोम=जगदीश्वर ! सुवति चराचरं जगत्तत्सम्बुद्धौ जगदीश्वर ! तव [व्रते]=सत्याचरणरूपे व्रते सत्यभाषणादिधर्मानुष्ठाने वर्तमानास्तनूषु विस्तृतसुखशरीरेषु मनः अन्तःकरणस्याहङ्कारादिवृत्तिं बिभ्रतः धारयन्तः पोषयन्तश्च सन्तः प्रजावन्तः बह्वयः सुसन्तानराष्ट्राख्याः प्रजा विद्यन्ते येषान्ते सन्तो वयं मनुष्याः सर्वैः सुखैः सचेमहि समवेयामेत्येकः

    तव=अस्य [सोम]=सोमस्य सूयन्ते रसा यस्मात्स सोम औषधिराज: [तस्य] व्रते=सत्याचरणनिमित्ते तनूषु विस्तृतसुखशरीरेषु मनः अन्तःकरणस्याहङ्कारादिवृत्तिं बिभ्रतः धारयन्तः पोषयन्तश्च सन्तः प्रजावन्तः बह्वयः सुसन्तानराष्ट्राख्या: प्रजा विद्यन्ते येषां ते भूत्वा वयं मनुष्याः र्वैः सुखैः सचेमहि=नित्यं समवेयामेति द्वितीयः ।। ३ । ५६ ।।

    [ हे सोम=जगदीश्वर ! त [व्रते]=सत्याचणरूपे व्रते वर्तमानाः ..........वयं सर्वैः सुखैः सचेमहि=नित्यं समवेयाम ]

    पदार्थः -

    (वयम्) मनुष्याः (सोम) सुवति चराचरं जगत्तत्सम्बुद्धौ जगदीश्वर ! अथवा सूयन्ते रसा यस्मात्स सोम औषधिराज: (व्रते) सत्यभाषणादिधर्मानुष्ठाने (तव) अस्य वा (मनः) अन्तःकरणस्थाहङ्कारादिवृत्तिम् (तनूषु) विस्तृतसुखशरीरेषु (बिभ्रतः) धारयन्तः पोषयन्तश्च (प्रजावन्तः) बह्वयः सुसन्तानराष्ट्राख्याः प्रजा विद्यन्ते येषान्ते । अत्र भूम्यर्थे मतुप् (सचेमहि ) समवेयाम ॥ ५६ ।।

    भावार्थः -

    अत्र श्लेषालङ्कारः ॥ ईश्वरस्याज्ञायां वर्तमाना मनुष्याः शरीरात्मसुखं नित्यं प्राप्नुवन्ति ।

    [त= अस्य [सोम]=सोमस्य व्रते=सत्याचणनिमित्ते........वयं सर्वैः सुखैः सचेमहि=नित्यं समवेयाम ]

     एवं सोमाद्योषधिसेविनोऽपि तत्सुखं समवयन्ति; नेतर इति ।। ३ । ५६ ।।

    भावार्थ पदार्थः -

    मा० पदार्थ:-- व्रते=ईश्वरस्याज्ञायाम् ।

    विशेषः -

    बन्धुः। सोमः=ईश्वर, औषधिरसश्च ॥ गायत्री ।षड्जः ।।

    इस भाष्य को एडिट करें
    Top