Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 11
    ऋषिः - भरद्वाज ऋषिः देवता - गृहपतयो देवताः छन्दः - निचृत् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    0

    उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा। हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑मा॒ऽइन्द्रा॑य॥११॥

    स्वर सहित पद पाठ

    उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। हरिः॑। अ॒सि॒। हा॒रि॒यो॒ज॒न इति॑ हारिऽयोज॒नः। हरि॑ऽभ्या॒मिति॒ हरि॑ऽभ्याम्। त्वा॒। हर्य्योः॑। धा॒नाः। स्थ॒। स॒हसो॑मा इति॑ स॒हऽसो॑माः। इन्द्रा॑य ॥११॥


    स्वर रहित मन्त्र

    उपयामगृहीतोसि हरिरसि हारियोजनो हरिभ्यान्त्वा । हर्यार्धाना स्थ सहसोमा इन्द्राय ॥


    स्वर रहित पद पाठ

    उपयामगृहीत इत्युपयामऽगृहीतः। असि। हरिः। असि। हारियोजन इति हारिऽयोजनः। हरिऽभ्यामिति हरिऽभ्याम्। त्वा। हर्य्योः। धानाः। स्थ। सहसोमा इति सहऽसोमाः। इन्द्राय॥११॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 11
    Acknowledgment

    सपदार्थान्वयः - हे पते ! त्वमुपयामगृहीतः उपयामाय=गृहाश्रमाय गृहीतः असि हारियोजनः हरिन् योजयति यः सारथिः स हरियोजनः,हरियोजन एव हारियोजनस्तद्वद् इव हरिः हरते=वहते यथायोग्यं गृहाश्रमव्यवहारान् असि, अतो हरिभ्यां सुशिक्षिताभ्यां तुरङ्गाभ्यांयुक्ते स्पन्दने विराजमानं त्वा=त्वामहं सेवे। यूयं गृहाश्रमिणः सन्त इन्द्राय परमैश्वर्यप्राप्तये सहसोमा: सोमेन=श्रेष्ठगुणसमूहेन सह वर्त्तमाना इव सन्तो हर्य्योः अश्वयो: धानाः धारका: स्थ भवत ॥ ८ । ११ ॥ [यूयं गृहाश्रमिणः सन्त इन्द्राय सह सोमाः सन्तो हर्य्योर्धानाः स्थ]

    पदार्थः -
    (उपयामगृहीतः) उपयामाय=गृहश्रमाय गृहीत: (असि)(हरिः) हरते=वहते यथायोग्यं गृहाश्रमव्यवहारान्(असि)(हारियोजनः) हरीन् योजयति यः सारथिः स हरियोजनः। हरियोजन एव हारियोजनस्तद्वत् (हरिभ्याम्) सुशिक्षिताभ्यां तुरंगाभ्याम् (त्वा) त्वाम् (हर्य्योः) अश्वयोः (धानाः) धारकाः । अत्र दधातेरौणादिको नः प्रत्ययः(स्थ) भवत (सहसोमाः) सोमेन=श्रेष्ठगुणसमूहेन सह वर्त्तमाना इव (इन्द्राय) परमैश्वर्य्यप्राप्तये ॥ अयं मंत्र: शत० ४। ४।३। १-१० व्याख्यातः ॥ ११॥

    भावार्थः - ब्रह्मचर्यसंस्कृता विवाहमिच्छवो युवतयः कन्या युवानश्चान्योऽन्यस्य धनोन्नतिं परीक्ष्य विवाहं कुर्यातां, नो चेद्धनाभावे दुःखोन्नतिर्भवेत् । [तात्पर्यमाह--] एवमुपयम्य परस्परमाह्लादयन्तः सन्तः प्रतिदिनमैश्वर्यमुन्नयेयुः ॥८ । ११॥

    विशेषः - भरद्वाजः । गृहपतय:=गृहस्थाः ॥ निचृदार्ष्यनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top