Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 37
    सूक्त - यम, मन्त्रोक्त देवता - विराट् जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥

    स्वर सहित पद पाठ

    ददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥


    स्वर रहित मन्त्र

    ददाम्यस्माअवसानमेतद्य एष आगन्मम चेदभूदिह। यमश्चिकित्वान्प्रत्येतदाहममैष राय उप तिष्ठतामिह ॥

    स्वर रहित पद पाठ

    ददामि । अस्मै । अवऽसानम् । एतत् । य: । एष: । आऽअगन् । मम । च । इत् । अभूत् । इह । यम: । चिकित्वान् । प्रति । एतत् । आह । मम । एष: । राये । उप । तिष्ठताम् । इह ॥२.३७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 37
    Top