अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 9
यास्ते॑ शो॒चयो॒रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। अ॒जं यन्त॒मनु॒ ताःसमृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ॥
स्वर सहित पद पाठया: । ते॒ । शो॒चय॑: । रंह॑य: । जा॒त॒ऽवे॒द॒: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । अ॒जम् । यन्त॑म् । अनु॑ । ता: । सम् । ऋ॒ण्व॒ता॒म् । अथ॑ । इत॑राभि: । शि॒वऽत॑माभि: । शृ॒तम् । कृ॒धि॒ ॥२.९॥
स्वर रहित मन्त्र
यास्ते शोचयोरंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम्। अजं यन्तमनु ताःसमृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥
स्वर रहित पद पाठया: । ते । शोचय: । रंहय: । जातऽवेद: । याभि: । आऽपृणासि । दिवम् । अन्तरिक्षम् । अजम् । यन्तम् । अनु । ता: । सम् । ऋण्वताम् । अथ । इतराभि: । शिवऽतमाभि: । शृतम् । कृधि ॥२.९॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 9
Translation -
What ardors, swifinesses are thine, O Jatavedas, with which thou fillest the sky, the atmosphere, let them collect after the goat as he goes; then with other most propitious ones make him propitious.