अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 7
सूर्यं॒ चक्षु॑षागच्छ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑भिः। अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
स्वर सहित पद पाठसूर्य॑म् । चक्षु॑षा । ग॒च्छ॒ । वात॑म् । आ॒त्मना॑ । दिव॑म् । च॒ । गच्छ॑ । पृ॒थि॒वीम् । च॒ । धर्म॑ऽभि: । अ॒प: । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रै: ॥२.७॥
स्वर रहित मन्त्र
सूर्यं चक्षुषागच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः। अपो वा गच्छ यदि तत्रते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥
स्वर रहित पद पाठसूर्यम् । चक्षुषा । गच्छ । वातम् । आत्मना । दिवम् । च । गच्छ । पृथिवीम् । च । धर्मऽभि: । अप: । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरै: ॥२.७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 7
Translation -
Go thou to the sun with thine eye, to the wind with thy soul; go both to heaven and to earth with (their) due shares; or go to the waters, if there it is acceptable to thee; in the herbs stand firm with thy bodies.