अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अग्नी॑षोमा॒पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्। उप॒ प्रेष्य॑न्तंपू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम् ॥
स्वर सहित पद पाठअग्नी॑षोमा । पथि॑ऽकृता । स्यो॒नम् । दे॒वेभ्य॑: । रत्न॑म् । द॒ध॒थु॒: । वि । लो॒कम् । उप॑ । प्र । ईष्य॑न्तम् । पू॒षण॑म् । य: । वहा॑ति । अ॒ञ्ज॒:ऽयानै॑: । प॒थिऽभि॑: । तत्र॑ । ग॒च्छ॒त॒म् ॥२.५३॥
स्वर रहित मन्त्र
अग्नीषोमापथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम्। उप प्रेष्यन्तंपूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥
स्वर रहित पद पाठअग्नीषोमा । पथिऽकृता । स्योनम् । देवेभ्य: । रत्नम् । दधथु: । वि । लोकम् । उप । प्र । ईष्यन्तम् । पूषणम् । य: । वहाति । अञ्ज:ऽयानै: । पथिऽभि: । तत्र । गच्छतम् ॥२.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 53
Translation -
O Agni and Soma, makers of roads, ye have distributed to the gods a pleasant treasure (and) world; send ye unto (us) Pusan, who shall carry by goat-traveled roads him that goes thither.