अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 8
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
स्वर सहित पद पाठअ॒ज: । भा॒ग: । तप॑स: । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चि: । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चि: । या: । ते॒ । शि॒वा: । त॒न्व᳡: । जा॒त॒ऽवे॒द॒: । ताभि॑: । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥२.८॥
स्वर रहित मन्त्र
अजोभागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः। यास्तेशिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
स्वर रहित पद पाठअज: । भाग: । तपस: । तम् । तपस्व । तम् । ते । शोचि: । तपतु । तम् । ते । अर्चि: । या: । ते । शिवा: । तन्व: । जातऽवेद: । ताभि: । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 8
Translation -
The goat is the share of the heat, heat thou that; that let thine ardor heat, that thy flame what propitious bodies are thine, O Jatavedas, with them carry him to the world of the welldoing.