Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 30
    सूक्त - कौशिकः देवता - विष्णुक्रमः छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी सूक्तम् - विजय प्राप्ति सूक्त

    विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा ऋक्सं॑शितः॒ साम॑तेजाः। ऋचोऽनु॒ वि क्र॑मे॒ऽहमृ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । ऋक्ऽसं॑शित: । साम॑ऽतेजा: । ऋच॑: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । ऋ॒क्ऽभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३०॥


    स्वर रहित मन्त्र

    विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितः सामतेजाः। ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥

    स्वर रहित पद पाठ

    विष्णो: । क्रम: । असि । सपत्नऽहा । ऋक्ऽसंशित: । सामऽतेजा: । ऋच: । अनु । वि । क्रमे । अहम् । ऋक्ऽभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 30

    टिप्पणीः - ३०−(ऋक्संशितः) ऋग् वाङ्नाम-निघ० १।११। वेदवाणीसकाशात् तीक्ष्णीकृतः (सामतेजाः) साम व्याख्यातम्-अ० ७।५४।१। षो अन्तकर्मणि। दुःखनाशकमोक्षज्ञानात् प्राप्ततेजाः (ऋचः) वेदवाणीः। अन्यत् सुगमं च ॥

    इस भाष्य को एडिट करें
    Top