अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 22
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म। आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयत् । अर्वा॒चीन॑म् । त्रै॒हा॒य॒नात् । अनृ॑तम् । किम् । च॒ । ऊ॒दि॒म । आप॑: । मा॒ । तस्मा॑त् । सर्व॑स्मात् । दु॒:ऽइ॒तात् । पा॒न्तु॒ । अंह॑स: ॥५.२२॥
स्वर रहित मन्त्र
यदर्वाचीनं त्रैहायणादनृतं किं चोदिम। आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥
स्वर रहित पद पाठयत् । अर्वाचीनम् । त्रैहायनात् । अनृतम् । किम् । च । ऊदिम । आप: । मा । तस्मात् । सर्वस्मात् । दु:ऽइतात् । पान्तु । अंहस: ॥५.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(यत्) (अर्वाचीनम्) अवर+अञ्च गतौ-क्विन्, अर्वादेशः, अर्वाच्-ख प्रत्ययः। अर्वाचि अवरे अधमे कर्मणि भवम् (त्रैहायणात्) हश्च व्रीहिकालयोः। पा० ३।१।१८४। ओहाक् त्यागे, ओहाङ् गतौ च−ण्युट् बाहुलकात्। आतो युक् चिण्कृतोः। पा० ७।३।३३। युक्। तस्य समूहः। पा० ४।२।३७। अण्। त्रयाणां हायनानां गतीनां परमेश्वरस्य कर्मोपासनाज्ञानरूपाणामुद्योगानां समूहस्त्रैहायनं तस्मात् पृथक् भूत्वा (अनृतम्) असत्यम् (किम् च) किंचन (ऊदिम) वयं कथिवन्तः (आपः) म० ६। विद्वांसः (मा) माम् (तस्मात्) (सर्वस्मात्) (दुरितात्) कठिनात् (पान्तु) (अहंसः) अपराधात् ॥
इस भाष्य को एडिट करें