Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 44
    सूक्त - सिन्धुद्वीपः देवता - प्रजापतिः छन्दः - त्रिपदा गायत्रीगर्भानुष्टुप् सूक्तम् - विजय प्राप्ति सूक्त

    राज्ञो॒ वरु॑णस्य ब॒न्धोसि॑। सो॒मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥

    स्वर सहित पद पाठ

    राज्ञ॑: । वरु॑णस्य । ब॒न्ध: । अ॒सि॒ । स: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अन्ने॑ । प्रा॒णे । ब॒धा॒न॒ ॥५.४४॥


    स्वर रहित मन्त्र

    राज्ञो वरुणस्य बन्धोसि। सोमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥

    स्वर रहित पद पाठ

    राज्ञ: । वरुणस्य । बन्ध: । असि । स: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । अन्ने । प्राणे । बधान ॥५.४४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 44

    टिप्पणीः - ४४−(राज्ञः) प्रजाशासकस्य (वरुणस्य) श्रेष्ठस्य (बन्धः) पाशरूपः (असि) (सः) स त्वम् (अमुम्) अमुकनामानम् (आमुष्यायणम्) म० ३६। अमुष्य पुरुषस्य पुत्रम् (अमुष्याः) अमुकजनन्याः (पुत्रम्) (अन्ने) अन्नसंयमने (प्राणे) वायुसंयमने (बधान) निगृहाण ॥

    इस भाष्य को एडिट करें
    Top