अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 15
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृतिः
सूक्तम् - विजय प्राप्ति सूक्त
यो व॑ आपो॒ऽपां भा॒गो॒प्स्व॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥
स्वर सहित पद पाठय: । व॒: । आ॒प॒: । अ॒पाम् । भा॒ग: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्य᳡: । दे॒व॒ऽयज॑न: । इ॒दम् । तम् । अति॑ । सृ॒जा॒मि॒ । तम् । मा । अ॒भि॒ऽअव॑निक्षि । तेन॑ । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.१५॥
स्वर रहित मन्त्र
यो व आपोऽपां भागोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
स्वर रहित पद पाठय: । व: । आप: । अपाम् । भाग: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(यः) (वः) युष्माकम् (आपः) म० ६। हे विद्वांसः (अपाम्) म० ६। विदुषाम् (भागः) अंशः (अप्सु) विद्वत्सु (अन्तः) मध्ये (यजुष्यः) यजुष्-यत्। पूजार्हः (देवयजनः) विद्वद्भिः संगन्तव्यः (इदम्) इदानीम् (तम्) भागम् (अति) पूजायाम् (सृजामि) निष्पादयामि (मा अभ्यवनिक्षि) णिजिर् शौचपोषणयोः−लुङ्। मा अभितोऽवशोधयामि। न विनाशयामि (तेन) भागेन (तम्) शत्रुम् (अभ्यतिसृजामः) अभिभूय सर्वतो त्यजामः। वशीकुर्मः (यः) अप्रीतिं कुर्मः (तम्) (वधेयम्) वध हिंसायाम्-लिङ्। अहं हन्याम् (तम्) (स्तृषीय) स्तृञ् आच्छादने-आ० लिङ्। आच्छादितं क्रियासम् (अनेन) (ब्रह्मणा) वेदज्ञानेन (अनेन) (कर्मणा) (अनया) (मेन्या) अ० २।११।१। वज्रेण ॥
इस भाष्य को एडिट करें