अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - पुरउष्णिक्
सूक्तम् - विजय प्राप्ति सूक्त
दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते। ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठदिश॑: । ज्योति॑ष्मती: । अ॒भि॒ऽआव॑र्ते । ता: । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ता: । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३८॥
स्वर रहित मन्त्र
दिशो ज्योतिष्मतीरभ्यावर्ते। ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठदिश: । ज्योतिष्मती: । अभिऽआवर्ते । ता: । मे । द्रविणम् । यच्छन्तु । ता: । मे । ब्राह्मणऽवर्चसम् ॥५.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 38
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३८−(दिशः) प्राच्यादीः (ज्योतिष्मतीः) प्रकाशवतीः (अभ्यावर्ते) अभीत्य वर्तनं करोमि (ताः) दिशः (यच्छन्तु) ददतु। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें