Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 2
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - पथ्या बृहती सूक्तम् - कुन्ताप सूक्त

    उष्ट्रा॒ यस्य॑ प्रवा॒हणो॑ व॒धूम॑न्तो द्वि॒र्दश॑। व॒र्ष्मा रथ॑स्य॒ नि जि॑हीडते दि॒व ई॒षमा॑णा उप॒स्पृशः॑ ॥

    स्वर सहित पद पाठ

    उष्ट्रा॒: । यस्य॑ । प्रवा॒हण॑: । व॒धूम॑न्त: । द्वि॒र्दश॑ ॥ व॒र्ष्मा । रथ॑स्य॒ । नि । जि॑हीडते । दि॒व: । ई॒षमा॑णा: । उप॒स्पृश॑: ॥१२७.२॥


    स्वर रहित मन्त्र

    उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश। वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥

    स्वर रहित पद पाठ

    उष्ट्रा: । यस्य । प्रवाहण: । वधूमन्त: । द्विर्दश ॥ वर्ष्मा । रथस्य । नि । जिहीडते । दिव: । ईषमाणा: । उपस्पृश: ॥१२७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 2

    टिप्पणीः - २−(उष्ट्राः) उषिकुशिभ्यां कित्। उ० ४।१६२। उष दाहे; वधे च-ष्ट्रन् कित्। पशुभेदाः (यस्य) राज्ञः (प्रवाहणः) वह प्रापणे-णिच् कनिन् वाहकाः (वधूमन्तः) उष्ट्रीसहिताः (द्विर्दश) द्विवारं दश। विंशतिम् (वर्ष्मा) अ० ३।४।२। वृष प्रजननैश्ययोः-मनिन्। सुपां सुलुक्०। पा० ७।१।३९। द्वितीयास्थाने सुः। वर्ष्माणम्। उच्चपदम् (रथस्य) यानस्य (नि) नितराम् (जिहीडते) अ० ४।३२।। हेडृ अनादरे क्रोधे च तिरस्कुर्वन्ति (दिवः) दिवु मदे-क्विप्। उन्मत्तस्य (ईषमाणाः) ईष गतौ-शानच्। शीघ्रगामिनः (उपस्पृशः) उपस्पृष्टाः। योजिताः ॥

    इस भाष्य को एडिट करें
    Top