Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 3
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    ए॒ष इ॒षाय॑ मामहे श॒तं नि॒ष्कान्दश॒ स्रजः॑। त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ॥

    स्वर सहित पद पाठ

    ए॒ष:। इ॒षाय॑ । मामहे । श॒तम् । नि॒ष्कान् । दश॒ । स्रज॑: ॥ त्रीणि॑ । श॒तानि॑ । अर्व॑तान् । स॒हस्रा॒ । दश॒ । गोना॑म् ॥१२७.३॥


    स्वर रहित मन्त्र

    एष इषाय मामहे शतं निष्कान्दश स्रजः। त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥

    स्वर रहित पद पाठ

    एष:। इषाय । मामहे । शतम् । निष्कान् । दश । स्रज: ॥ त्रीणि । शतानि । अर्वतान् । सहस्रा । दश । गोनाम् ॥१२७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 3

    टिप्पणीः - ३−(एषः) स राजा (इषाय) इष गतौ-क। उद्योगिने पुरुषाय (मामहे) मंहतेर्दानकर्मा-निघ० ३।४।२। ददौ (शतम्) (निष्कान्) निश्चयेन कायति। निस्+कै शब्दे-क। यद्वा, नौ सदेर्डिच्च। उ० ३।४। षद्लृ गतिविशरणयोः-कन्, स च डित्। दीनारान्। सुवर्णमुद्राः (दश) (स्रजः) सृज विसर्गे-क्विन्। मालाः (त्रीणि) (शतानि) (अर्वताम्) अश्वानाम् (सहस्रा) सहस्राणि (दश) (गोनाम्) गवाम्। धेनूनाम् ॥

    इस भाष्य को एडिट करें
    Top