Loading...
अथर्ववेद > काण्ड 20 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 8
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    प॑रि॒च्छिन्नः॒ क्षेम॑मकरो॒त्तम॒ आस॑नमा॒चर॑न्। कुला॑यन्कृ॒ण्वन्कौर॑व्यः॒ पति॒र्वद॑ति जा॒यया॑ ॥

    स्वर सहित पद पाठ

    प॒रि॒च्छिन्न॒: । क्षेम॑म् । अकरो॒त् । तम॒: । आस॑नम् । आ॒चर॑न् । कुला॑यन् । कृ॒ण्वन् । कौर॑व्य॒: । पति॒: । वद॑ति । जा॒यया॑ ॥१२७.८॥


    स्वर रहित मन्त्र

    परिच्छिन्नः क्षेममकरोत्तम आसनमाचरन्। कुलायन्कृण्वन्कौरव्यः पतिर्वदति जायया ॥

    स्वर रहित पद पाठ

    परिच्छिन्न: । क्षेमम् । अकरोत् । तम: । आसनम् । आचरन् । कुलायन् । कृण्वन् । कौरव्य: । पति: । वदति । जायया ॥१२७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 8

    टिप्पणीः - ८−(परिच्छिन्नः) कर्तरि क्तः। परिच्छेदकः। सर्वतो नाशकः। (क्षेमम्) आनन्दम् (अकरोत्) कृतवान् (तमः) अन्धकारम् (आसनम्) सिंहासनम् (आचरन्) स्वीकुर्वन्। गृह्णन् (कुलायन्) ह्रस्वश्छान्दसः। कुलायान्। स्थानानि। गृहाणि (कृण्वन्) कुर्वन्। रचयन् (कौरव्यः) कृग्रोरुच्च। उ० १।२४। डुकृञ् करणे-कु, उकारश्च। कुरुनादिभ्यो ण्यः। पा० ४।१।१७२। कुरु-ण्य। कुरूणां कार्यकर्तॄणां राजा। गृहपतिः (पतिः) भर्ता (वदति) (जायया) पत्न्या ॥

    इस भाष्य को एडिट करें
    Top