अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 9
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्। जा॒याः पतिं॒ वि पृ॑च्छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ॥
स्वर सहित पद पाठक॒त॒रत् । ते॒ । आ । ह॑राणि॒ । दधि॒ । मन्था॑म् । परि॒ । श्रु॒त॑म् ॥ जा॒या: । पति॒म् । वि । पृ॑च्छति । रा॒ष्ट्रे । राज्ञ॑: । परि॒क्षित॑: ॥१२७.९॥
स्वर रहित मन्त्र
कतरत्त आ हराणि दधि मन्थां परि श्रुतम्। जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥
स्वर रहित पद पाठकतरत् । ते । आ । हराणि । दधि । मन्थाम् । परि । श्रुतम् ॥ जाया: । पतिम् । वि । पृच्छति । राष्ट्रे । राज्ञ: । परिक्षित: ॥१२७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(कतरत्) किं वस्तु (ते) तुभ्यम् (आ हराणि) आनयानि (दधि) (मन्थाम्) मथ्यते विलोड्यते, मन्थ विलोडने-घञ्, टाप्। मथितम्। निर्जलतक्रम् (परि) परिभूष्य (श्रुतम्) स्रु गतौ क्षरणे च-क्त, सस्य शः। स्रुतम्। क्षरितं नवनीतादिकम् (जायाः) एकवचनस्य बहुवचनम्। पत्नी (पतिम्) भर्तारम् (वि) विविधम् (पृच्छति) ज्ञातुमिच्छति (राष्ट्रे) राज्ये (राज्ञः) शासकस्य (परीक्षितः) म० ७। सर्वत ऐश्वर्ययुक्तस्य ॥
इस भाष्य को एडिट करें