अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 6
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - भुरिगुष्णिक्
सूक्तम् - कुन्ताप सूक्त
प्र रे॑भ॒ धीं भ॑रस्व गो॒विदं॑ वसु॒विद॑म्। दे॑व॒त्रेमां॒ वाचं॑ श्रीणी॒हीषु॒र्नावी॑र॒स्तार॑म् ॥
स्वर सहित पद पाठप्र । रे॑भ॒ । भ॑रस्व । गो॒विद॑म् । वसु॒विद॑म् ॥ दे॒व॒ऽत्रा । इमाम् । वाच॑म् । त्रीणी॒हि । इषु॒: । न । अर्वी॑: । अ॒स्तार॑म् ॥१२७.६॥
स्वर रहित मन्त्र
प्र रेभ धीं भरस्व गोविदं वसुविदम्। देवत्रेमां वाचं श्रीणीहीषुर्नावीरस्तारम् ॥
स्वर रहित पद पाठप्र । रेभ । भरस्व । गोविदम् । वसुविदम् ॥ देवऽत्रा । इमाम् । वाचम् । त्रीणीहि । इषु: । न । अर्वी: । अस्तारम् ॥१२७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(प्र) प्रकर्षेण (रेभ) विद्वन् (धीम्) प्रज्ञाम् (भरस्व) धरस्व (गोविदम्) भूमिप्रापिकाम् (वसुविदम्) धनप्रापिकाम् (देवत्रा) विद्वत्सु (इमाम्) पूर्वोक्ताम् (वाचम्) वाणीम् (श्रीणीहि) परिपक्वां दृढां कुरु (इषुः) इषः (न) यथा (अवीः) अव प्रवेशे-इन्। प्रवेशाणि लक्ष्याणि (अस्तारम्) शरप्रक्षेप्तारम् ॥
इस भाष्य को एडिट करें