अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 13
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
नेमा इ॑न्द्र॒ गावो॑ रिष॒न्मो आ॒सां गोप॑ रीरिषत्। मासा॑म॒मित्र॒युर्ज॑न॒ इन्द्र॒ मा स्ते॒न ई॑शत ॥
स्वर सहित पद पाठन । इमा: । इ॑न्द्र॒ । गाव॑: । रिष॒न् । मो इति॑ । आ॒साम् । गोप॑ । रीरिषत् ॥ मा । आसा॑म् । अमि॒त्र॒यु: । जन॒: । इन्द्र॒ । मा । स्ते॒न: । ईश॑त ॥१२७.१३॥
स्वर रहित मन्त्र
नेमा इन्द्र गावो रिषन्मो आसां गोप रीरिषत्। मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥
स्वर रहित पद पाठन । इमा: । इन्द्र । गाव: । रिषन् । मो इति । आसाम् । गोप । रीरिषत् ॥ मा । आसाम् । अमित्रयु: । जन: । इन्द्र । मा । स्तेन: । ईशत ॥१२७.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(न) निषेधे (इमाः) दृश्यमानाः (इन्द्र) परमैश्वर्यवन् राजन् (गावः) कृष्यादिभूमयः (रिषन्) नश्यन्तु (मो) निषेधे (आसाम्) गवां भूमीनाम् (गोप) गुपू रक्षणे-अच्। आयादय आर्धधातुके वा। पा० ३।१।३१। आयलोपः। विभक्तेर्लुक्। गोपः। रक्षकः (रीरिषन्) रिष हिंसायाम्, ण्यन्ताद् माङि लुङि चङि रूपं कर्मण्यर्थे। नश्येत् (मा) निषेधे (आसाम्) (अमित्रयुः) अमित्र-क्यच्, उप्रत्ययः। शत्रून् कामयमानः (जनः) पामरलोकः (इन्द्र) (मा) (स्तेनः) चोरः (ईशत्) राजा भवेत् ॥
इस भाष्य को एडिट करें