अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 2
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः। यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥
स्वर सहित पद पाठयु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । ताम् । दिव॑:। न॒पा॒ता॒ । व॒न॒थ॒: । शची॑भि: ॥ यु॒वो: । वपु॑: । अ॒भि । पृक्ष॑: । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हास॑: । रथे॑ । वा॒म् ॥१४३.२॥
स्वर रहित मन्त्र
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः। युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥
स्वर रहित पद पाठयुवम् । श्रियम् । अश्विना । देवता । ताम् । दिव:। नपाता । वनथ: । शचीभि: ॥ युवो: । वपु: । अभि । पृक्ष: । सचन्ते । वहन्ति । यत् । ककुहास: । रथे । वाम् ॥१४३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(युवम्) युवाम् (श्रियम्) लक्ष्मीम् (अश्विना) म० १। हे चतुरराजमन्त्रिणौ (देवता) भृमृदृशि०। उ० ३।११०। दिवु क्रीडादिषु-अतच्, विभक्तेराकारः। दिव्यगुणसम्पन्नौ (ताम्) वक्ष्यमाणाम् (दिवः) व्यवहारस्य (नपाता) अथ० १।१३।२। नञ्+पत अधःपतने णिच्-क्विप्, नञः प्रकृतिभावः। न पातयितारौ। रक्षकौ (वनथः) संभजेथे। संसेवेथे (शचीभिः) प्रज्ञाभिः (युवोः) युवयोः (वपुः) शरीरम् (अभि) अभितः (पृक्षः) पृची सम्पर्के-क्विप्, धातोः कुगागमः, बहुवचनम्। पृक्षः अन्ननाम-निघ० २।७। अन्नानि (सचन्ते) षच सेचने। सिञ्चन्ति (वहन्ति) नयन्ति (यत्) यस्यै श्रिये (ककुहासः) क+कु+हन हिंसागत्योः-डप्रत्ययः। कस्य सुखस्य कुं भूमिं स्थानं प्राप्नोतीति ककहः, असुगागमः। ककह इति; महन्नाम-निघ० ३।३। महान्तो विद्वांसः-दयानन्दभाष्ये ऋ० १।४६।३। (रथे) रमणीये याने (वाम्) युवाम् ॥
इस भाष्य को एडिट करें