अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 6
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे। नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ढासो॑ अग्मन् ॥
स्वर सहित पद पाठनु । न॒: । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ॥ नर॑: । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमो॒ल्हास॑: । अ॒ग्म॒न् ॥१४३.६॥
स्वर रहित मन्त्र
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे। नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमीढासो अग्मन् ॥
स्वर रहित पद पाठनु । न: । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ॥ नर: । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमोल्हास: । अग्मन् ॥१४३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(नु) सद्यः (नः) अस्मभ्यम् (रयिम्) धनम् (पुरुवीरम्) बहवो वीरा यस्मात्तम् (बृहन्तम्) महान्तम् (दस्रा) अथ० ७।७३।२। दस दर्शने-रक्। दर्शनीयौ-निरु० ६।२६। (मिमाथाम्) माङ् माने लोट्। परिमितं कुरुतम्। दत्तम् (उभयेषु) द्वित्वविशिष्टेषु। राजप्रजाजनयुक्तेषु (अस्मे) अस्मासु (नरः) नेतारः (यत्) यतः (वाम्) युवाभ्याम् (अश्विना) म० १। हे चतुरराजामात्यौ (स्तोमम्) प्रशंसाम् (आवन्) अथ० ४।२।६। अव रक्षणगत्यादिषु-लङ्। अरक्षन् (सधस्तुतिम्) सध=सह। परस्परकीर्तिम् (आजमीढासः) आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-घञर्थे क+मिह सेचने-क्त। आजम् आज्यं घृतम्। मीढं धनम्-निघ० २।७। घृतादिपदार्थः सुवर्णादिधनं च येषां ते तथाभूताः (अग्मन्) अगमन्। प्राप्नुवन् ॥
इस भाष्य को एडिट करें