Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 3
    सूक्त - पुरमीढाजमीढौ देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः। ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥

    स्वर सहित पद पाठ

    क: । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्य: । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कै: ॥ ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नम॑: । ये॒मा॒न: । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥१४३.३॥


    स्वर रहित मन्त्र

    को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः। ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥

    स्वर रहित पद पाठ

    क: । वाम् । अद्य । करते । रातऽहव्य: । ऊतये । वा । सुतऽपेयाय । वा । अर्कै: ॥ ऋतस्य । वा । वनुषे । पूर्व्याय । नम: । येमान: । अश्विना । आ । ववर्तत् ॥१४३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 3

    टिप्पणीः - ३−(कः) प्रत्येकपुरुषः, इत्यर्थः (वाम्) युवाभ्याम् (अद्य) म० १। (करते) कर्म प्रयत्नं करोति (रातहव्यः) दत्तदातव्यः (ऊतये) रक्षणाय (वा वा) समुच्चये (सुतपेयाय) निष्पादितस्य सोमस्य तत्त्वरसस्य पानाय (अर्कैः) सत्कारैः (ऋतस्य) सत्यज्ञानस्य (वा) समुच्चये (वनुषे) जनेरुसिः। उ० २।११। वन संभक्तौ-उसि। संभजनाय। सेवनाय (पूर्व्याय) प्राचीनेषु भवाय (नमः) अन्नम् (येमानः) यमेः कानच्, एत्वमभ्यासलोपश्च, चित्त्वादन्तोदात्तः। नियच्छन्। आकर्षन्। बृंहणन् (अश्विना) म० १ (आ) (ववर्तत्) वर्तते ॥

    इस भाष्य को एडिट करें
    Top