अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 4
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
हि॑र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम्। पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥
स्वर सहित पद पाठहि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥ पिबा॑थ: । इत् । मधु॑न: । सो॒म्यस्य॑ । दध॑थ: । रत्न॑म् । वि॒ध॒ते । जना॑य ॥१४३.४॥
स्वर रहित मन्त्र
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम्। पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
स्वर रहित पद पाठहिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ॥ पिबाथ: । इत् । मधुन: । सोम्यस्य । दधथ: । रत्नम् । विधते । जनाय ॥१४३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(हिरण्ययेन) तेजोमयेन। अग्न्यादिप्रकाशबलयुक्तेन (पुरुभू) पॄभिदिव्यधि०। उ० १।२६। पॄ पालनपूरणयोः-कु+भू चिन्तने-डु। हे पुरूणां पालनव्यवहाराणां भावयितारौ चिन्तयितारौ (रथेन) रमणीयेन यानेन (इमम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (नासत्या) सू० १४०।१। हे सदा सत्यस्वभावौ (उप) पूजायाम् (यातम्) प्राप्नुतम् (पिबाथः) लेटि रूपम्। पानं कुरुतम् (इत्) अवश्यम् (मधुनः) निश्चितज्ञानस्य। मधुज्ञानस्य (सोम्यस्य) सोमे तत्त्वरसे भवस्य रसस्य (दधथः) दध दाने धारणे च-लेट्। दत्तम् (रत्नम्) रमणीयं धनम् (विधते) विध विधाने-शतृ। पुरुषार्थं कुर्वते (जनाय) मनुष्याय ॥
इस भाष्य को एडिट करें