अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 7
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॑रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
स्वर सहित पद पाठइ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इयम् । अ॒स्मे । इति॑ । सु॒ऽम॒ति: । वा॒ज॒ऽर॒त्ना॒ ॥ उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒त: । काम॑: । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥१४३.७॥
स्वर रहित मन्त्र
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
स्वर रहित पद पाठइहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे । इति । सुऽमति: । वाजऽरत्ना ॥ उरुष्यतम् । जरितारम् । युवम् । ह । श्रित: । काम: । नासत्या । युवद्रिक् ॥१४३.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद ४।४३।७। में भी है ॥ ७−(इहेह) अस्मिन्नेव राज्ये (यत्) या सुमतिः (वाम्) युवाम् (समना) समान+अन प्राणने-अच्, वा मन ज्ञाने-अच्। समनं समननाद्वा सम्मानाद्वा-निरु० ७।१६। समानमनस्कौ (पपृक्षे) पृची संपर्चने। पृक्ते। संयोजयति (सा) (इयम्) (अस्मे) अस्मासु (सुमतिः) शोभना प्रज्ञा (वाजरत्ना) वाजो बोधी रत्नं धनं च ययोस्तौ। हे ज्ञानेन धनेन च युक्तौ (उरुष्यतम्) उरुष्यति रक्षाकर्मा-निरु० ।२३। रक्षतम् (जरितारम्) स्तोतारं गुणानां व्याख्यातारम् (युवम्) युवाम् (ह) एव (श्रितः) आश्रितः। युवयोराश्रयभूतः (कामः) मनोरथः (नासत्या) म० ४। हे सदा सत्यस्वभावौ। धर्मात्मानौ (युवद्रिक्) दृशिर् प्रेक्षणे-क्विप्, ऋकारस्य रिकारः। युवां पश्यन् ॥
इस भाष्य को एडिट करें