Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 9
    सूक्त - मेध्यातिथिः देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः। स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

    स्वर सहित पद पाठ

    प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भ: । दि॒व: । रज॑स: । पृ॒थि॒व्या: ॥ स॒हस्र॑म् । शंसा॑: । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥१४३.९॥


    स्वर रहित मन्त्र

    पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः। सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥

    स्वर रहित पद पाठ

    पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभ: । दिव: । रजस: । पृथिव्या: ॥ सहस्रम् । शंसा: । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥१४३.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 9

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-८।७।३। [सायणभाष्य अवशिष्ट बालशिल्य सू० ९। म० ३] ॥ इति नवमोऽनुवाकः ॥ इति षट्त्रिंशः प्रपाठकः ॥ इति विंशं काण्डम् ॥ इत्यथर्ववेदभाष्यं च समाप्तम् ॥ यह शासनकाण्ड नाम बीसवाँ काण्ड पूरा हुआ ॥ और अथर्ववेदसंहिता भी पूरी हुई ॥इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास- दक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये विंशं काण्डं समाप्तम् ॥ओ३म् शान्तिः शान्तिः शान्तिः ॥९−(पनाय्यम्) श्रुदक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६। पन व्यवहारे स्तुतौ च-आय्यप्रत्ययः। स्तुत्यम् (तत्) वक्ष्यमाणम् (अश्विना) म० १। हे चतुरराजामात्यौ (कृतम्) कर्म (वाम्) युवयोः (वृषभः) ऋषिवृषिभ्यां कित्। उ० ३।१२३। वृषु सेचने, वृषप्रजनैश्वर्ययोः+अभच्। सुपां सुलुक्०। पा० ७।१।३९। द्विवचनस्य सुः। वृषभौ। ईश्वरौ। शासकौ (दिवः) दिवु व्यवहारादिषु-डिवि। व्यवहारस्य (रजसः) अन्तरिक्षस्य। आकाशस्य (पृथिव्याः) भूमेः (सहस्रम्) बहुसंख्याकाः (शंसाः) स्तोमाः। स्तुत्यगुणाः (उत) अपि च (ये) (गविष्टौ) इष गतौ, यद्वा यज देवपूजासंगतिकरणदानेषु-क्तिन्। गोर्वाचो विद्याया इष्टौ प्राप्तौ (सर्वान्) (इत्) एव (तान्) शंसान् स्तुत्यगुणान् (उप) पूजायाम् (यात) सांहितिको दीर्घः। प्राप्नुत (पिबध्यै) अथ० २०।८।३। पातुम्। सोमस्य तत्त्वरसस्य पानं कर्तुम् ॥

    इस भाष्य को एडिट करें
    Top